रीना - मम पुत्रः मासत्रयेभ्यः विद्यालयं न गतवान् ।
मित्रम् - किम् अभवत्? तस्य आरोग्यं सम्यक् नास्ति किम्?
रीना - तथा न, एकस्मिन् दिने मम पुत्रः कुत्रापि मार्गभ्रष्टो जातः तदानीं मम पतिः तस्य चित्रेण सह वार्तां वाट्सप्प् माध्यमे प्रेषितवान् दशनिमिषानन्तरं पुत्रः गृहम् आगतवान् किन्तु इदानीमपि यः कोऽपि तं मार्गे पश्यति चेत् तं गृहं आनयति एतस्मात् कारणात् सः विद्यालयं गन्तुं न शक्नोति! यतः सः सन्देश अधुनापि वाट्सप्प् जाले सञ्चरन् अस्ति।।
.
No comments:
Post a Comment