Saturday, 6 January 2018

आयफोनक्रीणन्ती अल्पवस्त्रावृता पुत्री

पिता आयफोनक्रीणन्तीं अल्पवस्त्रावृतां स्वपुत्रीं दृष्टवान् । तयोः संवृत्तः संवादः -

पिता - नूतनम् आयफोनसञ्चम् अधिगत्य आदौ किं करणीयं सञ्चेन सह?
पुत्री - प्लैस्टिकेन पटलं आवृतव्यम् (screen guard)।
पिता - किन्तु तेन सञ्चस्य मूल्यं, तस्य सौन्दर्यं क्षीणतां न याति?
पुत्री - न हि। एपलसंस्थया तु तदेव आशंसितमस्ति। प्लैस्टिकावरणेन आयफोनसञ्चः हानितः, व्रणतः (scratch) च परित्रायते। 
पिता - (स्मितहास्येन) पुत्रि, शालीनतया धृताणि वस्त्राणि आयफोनसञ्चस्य प्लैस्टिकावरणमिव अस्ति। त्वं मम कृते आयफोनादपि प्रियतरासि, तव संरक्षणार्थमेव अहं त्वां पूर्णानि वस्त्राणि धर्तुं उपदिशन् अस्मि । युक्तानि परिधानानि विनयं, प्रतिष्ठां च एतयोः द्योतकानि सन्ति।
.
पुत्री तस्याः पितुः परामर्शम् अङ्गीकृतवती। अनन्तरं सा प्लैस्टिकेन स्वाङ्गं वेष्टितवती।

No comments:

Post a Comment