Saturday, 6 January 2018

दोषपूर्णः ईमेलसङ्केतः

एकः पुरुषः यात्रीनिवासं प्रविष्टवान्। प्रकोष्ठे सङ्गणकं दृष्ट्वा पत्नीं वैद्युतसन्देशं (ईमेलं) प्रेषितुं निर्णीतवान्।

अनवधानेन दोषपूर्णः सङकेतः लिखितः तेन, यश्च एकस्याः विधवायाः आसीत्, या तत्समये तस्याः पत्युः अन्त्येष्ट्यां रतासीत्।

प्रत्यागत्य तया सन्देशस्थलम् (inbox) उद्घाटितम्। सान्त्वनदायिनः सन्देशान् अपेक्षती सा प्रथमं सन्देशं पठित्वैव मूर्छितवती।

तस्याः पुत्रः यदा प्रकोष्ठं प्रविष्टवान्। अस्वस्थां स्वमातरं प्राप्य तेन सङ्गणकपटले सन्देशः दृष्टः, यस्मिन् लिखितमासीत् ,

"हे प्रियभार्ये, जानेऽहं यद् त्वं विस्मितासि मम सन्देशं दृष्ट्वा । अत्र सङ्गणकस्य सुविधास्ति, स्नेहीन् सन्देशान् प्रेषणाय अनुमतिः अपि अस्ति । त्वं, पुत्रः च कथं स्तः? एतद् स्थानं बहु रोचकं, मनोहरं चास्ति, किन्तु एकान्तं बाधतेऽत्र। मया तवागमनार्थं सर्वे सन्नाहाः कृताः सन्ति । प्रिये, सत्वरमागच्छ अत्र। त्वां द्रष्टुकामः, त्वां मेलितुमासक्तः अहं प्रतीक्षमाणः अस्मि।"
😛😆😂

No comments:

Post a Comment