Sunday, 7 January 2018

उष्णकाफी $5 शीतकाफी $10

व्यङ्कटः तस्य पत्न्या सह काफीपानार्थम् उपहारगृहं गतः। काफीपानसमये स्वपत्नीम् आदिशत्, "शीघ्रं पिब काफीं यथा सा शीता न भवेत्।"

तस्य पत्नी :- किमर्थमेषा त्वरा? सौख्येन शनैः शनैः किमर्थं न पिबानि अहम्?

व्यङ्कटः - त्वं दत्तावधाना नासि। फलके लिखितमस्ति यद् उष्णकाफ्याः मूल्यं $5, शीतकाफ्याः च $10।

No comments:

Post a Comment