Saturday, 6 January 2018

दृष्टिकोण: महत्वादायी

परीक्षकः विविधक्षेत्रेषु कार्यरतान् पृच्छति :-

BMW भवन्तः कदा क्रेतुं शक्ष्यन्ति?

देहलीयः भिषग्वरः - मम वैद्यालयस्थापनतः षण्मासाभ्यन्तरम्।

व्यवसायव्यवस्थापने स्नातकोत्तरोपाधिधारकः (MBA) मुम्बईतः - मम 9 मासात्मकवृत्तिम् अनन्तरम्।

बेंगलुरूतः अभियन्ता - मम 1 वर्षात्मकवृत्तिम् अनन्तरम्।

मारवाड़ीयः वाणिज्ये स्नातकोपाधिधारकः (B. COM graduate)- तद् क्रेतुं मया दशवर्षान् यावत्तु वृत्तिः करणीया ननु।

परीक्षकः साश्चर्यम् - एतावान् प्रदीर्घकालः???? 😲😱

मारवाड़ीयः वाणिज्ये स्नातकोपाधिधारकः - यतः BMW आर्थिकदृष्ट्या महती विशाला , सुसम्पन्ना च संस्था । तां क्रेतुं तु न्यूनातिन्यूनं दशवर्षात्मकः वृत्तिः, अनुभवः च आवश्यकौ एव।


No comments:

Post a Comment