Sunday, 28 January 2018

५०० रुप्यकमुद्रा

500 रुप्यकस्य पत्रमुद्रां आपणिकः सर्वेभ्यः कोणेभ्यः वारं वारं,  पौनः पुन्येन परीक्षमाणः आसीत् (मुद्रा छद्मा तु नास्ति एतद् दृढीकर्तुम्)।

बहुनिमिषेभ्यः प्रतीक्षमाणः ग्राहकः क्रोधाविष्टः सन् अवदत्, "महोदय,  कतिवारं निरीक्षसे एतां मुद्राम्? सर्वेभ्यः कोणेभ्यः महात्मा गान्धिवर्यः एव दृश्येत न तु कैटरीना कैफ। शीघ्रं परिवर्तं (चिल्लर) यच्छतु मह्यम्।"

No comments:

Post a Comment