Sunday, 7 January 2018

परिवहननियन्त्रकदीपाः

पुणेनगरे तिलकमार्गस्थे चतुष्टये हरितवर्णीयदीपे उद्दीप्ते एव एकस्याः महिलायाः कारयानं निष्क्रियं जातम्। वारं वारं कुञ्चिकया प्रचोद्य अपि तस्याः यत्नाः सफलाः न भूताः, कारयानं न चालितम्।

केचननिमिषाभ्यन्तरं पीतवर्णीयं दीपम् उद्दीप्तम्, अनन्तरं रक्तवर्णीयमपि।

एतद् निरीक्षमाणः पादचारी लिमयेमहोदयः सोपहासमवदत्,

"महोदये, किमर्थमग्रे न सरति भवती? दीपस्य एकः अपि वर्णः न अरोचत वा?" 😂😂😂

No comments:

Post a Comment