Wednesday, 10 January 2018

छात्राणाम् आकाङ्क्षाः

पाठशालायां घटितः प्रसङ्गः

शिक्षकः - वरूण, किं भवितुमिच्छसि त्वं विंशतिवर्षाभ्यन्तरम्?

वरूणः - अहं धनाढ्यः भवितुं वाञ्छामि। मम व्यवसायः सर्वेषु प्रगतनगरेषु विस्तर्येत, मम विशालः हर्म्यः भवेत्, सर्वदा विमानेन प्रयाणं कुर्यामहं, यत्र यत्र गमिष्यामि, पञ्चताराङ्कितावासेष्वेव निवसेयं, मम पोषणार्थं न्यूनातिन्यूनाः 10 भृत्याः स्युः, महार्घतमस्य कारयानस्य स्वामी स्याम्, महार्घतमं हीरकं क्रीणीयाम् अहम् .........

शिक्षकः (व्यवधानं कृत्वा) - भोः अलम् अलम्। सर्वे छात्राः, यूयं सर्वे कृपया एतावान् दीर्घमुत्तरं मा विवृणुत, एकवाक्ये एव कथयत। पूजे, त्वं कथय, किं तव लक्ष्यं  विंशतिवर्षाभ्यन्तरम्? न्यूनातिन्यूनैः शब्दैः कथय।

पूजा - वरूणस्य पत्नीं भवितुं इष्यामि अहम्।

No comments:

Post a Comment