शवपेटिकापणिकः तस्य ग्राहकं प्रति कारयानेन एकां शवपेटिकां नयन् आसीत्। सहसैव तस्य कारयानं निष्क्रियं जातम्। ग्राहकस्थले पेटिकाप्राप्तौ विलम्बं यथा न भवेत् तथा सः शवपेटिकां उन्नीय शिरसि स्थाप्य एव प्रस्थितः।
मार्गे कश्चन आरक्षकः तम् अपश्यत्। उत्कोचमार्गेण धनार्जनहेतुना आरक्षकः तम् आहूतवान्, तर्जनस्वरेण च पृष्टवान्, "किं वहसि त्वं शिरसि? कुत्र च गच्छसि एतद् गृहीत्वा? "
तीक्ष्णमतिः आपणिकः उत्तरितवान्,
(भवद्भ्यः अतीव रोचेत उत्तरम्)
..
अहं यत्र निखातः (buried) मम मरणोत्तरं, तत्स्थानं मह्यं न रोचते, अतः अहं स्वयमेव अन्यत्र स्थलान्तरं कुर्वन् अस्मि।
आरक्षकः भीतः सन् मूर्च्छितः 😂
No comments:
Post a Comment