Sunday, 7 January 2018

पत्न्या पचितम् भोजनं

😘😘
👍👍
विंशतिवर्षेभ्यः विवाहितेन पुरुषेण पत्न्या पचितम् भोजनं न कदापि प्रशंसितम् आसीत्। निर्मलबाबावर्येण सः उपदिष्टः, "पत्न्या पचितं भोजनं श्र्लाघताम्। भगवतः कृपा लभेत।"

बाबावर्यस्य उपदेशः (दुष्)परिणामकरी अभवत् एतावता :-

गृहमागत्य भोजनानन्तरं सः तया पचितस्य पराठापक्वान्नस्य भृशं प्रशंसां कृतवान्। किन्तु पत्नी तु क्रोधाविष्टा जाता। सा वेल्लन्या तं च बहुधा ताडितवती , तं च तर्जितवती, "विंशतिवर्षीये वैवाहिकजीवने मम भोजनं न कदापि प्रशंसितवान्, किन्तु प्रतिवेशिन्या पचिते पराठापक्वानः स्वर्गः इव भासते भवतः।"
😝😝😂😂😂


No comments:

Post a Comment