Saturday 2 May 2020

हसामः

*द्विशतं कुतः* 

 _विवाहस्य अग्रिमे दिने  पतिः पत्नीं प्रति।_ 

विद्यालये  महाविद्यालये वा भवत्याः कृते कामुकः आसीत् किम् ?

एतत् श्रुत्वा सा अन्तः गत्वा एकं वेष्टनं (envelope) आनीय उक्तवती यदा अहम्  कामुकं प्राप्नोमि स्म तदा अस्मिन् एकं तण्डुलकणं निक्षिपामि स्म ।।

सः झटिति गणनां कृत्वा ..... चिन्ता मास्तु केवलाः पञ्चतण्डुलकणाः एव तत्सर्वं स्वाभाविकम् अन्यथा न भावये । किञ्च अस्मिन् द्विशतरुप्यकाणि कथम् ?

मध्ये द्विवारं तण्डुलान् विक्रीतवती ।।

🤣🤣😂😂

- सुनीशः

Sunday 9 February 2020

हसामः

गण्या---एतावान् व्याकुलः किमर्थं भोः?😏

बण्ड्या---अरे किञ्चित् भ्रान्तः जातोऽहम्।☹

गण्या---किमर्थम्?

बण्ड्या---अहं मार्गेण गच्छन् आसम्।तदैव पुरतः किमपि दृष्टं मया।सः सर्पः स्यात् इति अमन्येऽहम्।किन्तु सः सर्पः न आसीत्।😩

गण्या----अत्र व्याकुलतायाः किं कारणम्?🤔

बण्ड्या---आम् सत्यम् भोः।😔
किन्तु दण्डः  मत्वा यम् अहं सर्पं मारयितुम्  उत्थापितवान् .......
सः सर्पः आसीत् रे😭


दर्शना
😃😜😃

Tuesday 21 January 2020

हसामः

पप्पू विवाहार्थं गच्छति👱

तत्र भोजने जनाः वारंवारं केवलं जलमेव परिवेशयन्तः आसन् ।😜
पप्पू  बहु त्रस्तः जातः।😡
अन्ते सो उच्चैरवदत्..........
 गले जलबाधः जातः कृपया कोऽपि रसगोलकं परिवेशयतु भोः😝

दर्शना
😝😂😂

Monday 20 January 2020

हसामः

युवकः--- त्वं किमर्थं मे दूरवाणी नोत्थितवती???😝

युवती---अरे इदानीमेव स्वपित्वा उत्थितवती भोः
मात्रा काॅफीपेयं दत्तं तदेव पिबन्त्यस्मि।
वदतु ........😊

युवकः--- किन्तु भवत्याः माता अवदत् यत् भवती तु गोमयं क्षेप्तुं गतवती इति।😜

दर्शना
😆🤭😆

Tuesday 14 January 2020

हसामः

पत्नी--- अद्य मे स्वास्थ्यं सम्यक् नास्ति भोः।😢

पतिः---एवं वा🤭
तर्हि
 चिन्ता मास्तु अयि प्रिये😝
अद्य मकरसंक्रमणपर्वणः कृते भवती मधुरं मधुरं अवदत् अतः एवं भवेत्।
अस्तु
श्वतः पुनः पूर्ववत् सम्यगेव भवेत्
चिन्ता न करणीया अयि😜


दर्शना
😃😂😃

Wednesday 8 January 2020

हसामः

न्यायाधिशः--(चौरं प्रति)
गृहे गृहस्वामी तथा च गृहसदस्याः आसन् तर्हि अपि भवान् चौर्यकर्म कर्तुं कथं शक्तवान्??

चौरः---न्यायाधिशवर्यः भवतः वृत्तिः उत्तमास्ति।
वेतनमपि सम्यगेव वर्तते।
भवान् एतद् सर्वं ज्ञात्वा किं करिष्यति भोः??

दर्शना
😃🤭😃

हसामः

रेलस्थानके यात्रापत्रनिरिक्षकः गणपतं वदति
यात्रापत्रं कुत्रास्ति तव दर्शयतु भोः।🤔

गणपतः---अरे अहं रेलयानेन नागतमं भोः।

निरिक्षकः---किं प्रमाणं  रे ??

गणपतः---प्रमाणं तु एतदेव वर्तते यत् मम समीपं यात्रापत्रं नास्ति ।😃

दर्शना
😃😜😃