Sunday, 7 January 2018

ग्रीष्मावकाशविशेषः

ग्रीष्मावकाशविशेषः

पत्नी मातृगृहं गमनात् पूर्वं पतिं पत्रं लिखितवती :-

1. मम अनुपस्थितेः सन्तोषोत्सवार्थं मित्राणि मा निमन्त्रयतु। गते अवकाशे भवता निगूढानि 4 पिज्जाप्राप्तिकाः मया शयनास्तरणात् अधः दृष्टाः आसन्।
2. स्नानं समाप्य भ्रमणध्वनिसञ्चं फेनकग्राहके मा विस्मरतु। मया तु कदापि न बुद्धं यत् स्नानागारे भ्रमणध्वनिसञ्चस्य का आवश्यकता।
3. उपनेत्रम् इतस्ततः मा विस्मरतु। गते समये शीतके प्राप्तं तद्।
4. अत्यौदार्येण मा व्यवहरतु। मया कर्मकर्यै वेतनं दत्तम् अस्ति।
5. यदि वर्तमानपत्रं द्वारात् बहिः न प्राप्यते प्रातःकाले, तर्हि प्रतिवेशिन्याः द्वारं खटखटायित्वा तस्याः निद्राभङ्गं मा करोतु, तस्याः वर्तमानपत्रवितरकः कोऽपि अन्योऽस्ति। तस्याः दुग्धवितरकः, वस्त्रसमीकारः अपि आवाभ्यां वितरकाभ्यां भिन्नतरौ स्तः।
6. भवतः अन्तर्वस्त्राणि कपाटिकायां वामतने विभागे, पुत्रस्य च दक्षिणतमे स्थापितानि सन्ति। गतः अवसरः सदृशं पुनः मा आक्षिपतु यद् भवतः प्रातिकूल्यं भासते इति।
7. अहं भवतः सर्वेषां मित्राणां पत्नीः सूचितवती अस्मि मम अवकाशस्य विषये। ताः सर्वाः अपि तासां पतिवर्यान् आवयोः गृहे सम्मिलितुं (वा किमपि अन्यत् कर्तुं) न अनुमन्स्यन्ते।
8. अन्तिमा महत्वादायिनी सूचना :-
स्वयं पाटविकं (smart) मा भावयतु।अहं पूर्वसूचनया विनैव प्रत्यागमिष्यामि। 
👊👊👊

No comments:

Post a Comment