एकः वैद्यः, यान्त्रिकी अभियन्ता (mechanical engineer) च एकस्यामेव युवत्यामनुरक्तौ। वैद्यः प्रतिदिनं तस्यै पाटलपुष्पं यच्छति स्म, अभियन्ता च सेवफलं (apple) यच्छति स्म।
सम्भ्रान्ता युवती अभियन्तारं पृष्टवती, "प्रेम्णि पाटलपुष्पस्य महत्त्वं तु सर्वश्रुतं किन्तु एतत् सेवफलं किमर्थम्?
अभियन्ता उत्तरितवान्, " न त्वया श्रुतं कदापि यत् सेवसेवनेन वैद्यसान्निध्यः वर्ज्यते (an apple a day keeps a doctor away)"
No comments:
Post a Comment