एकः पुरुषः व्रणितावस्थायां आरक्षकालयं गतः।
आरक्षकः - किमभवत् ? कथं एतावन्ति व्रणानि?
पुरुषः - पत्नी ताडितवती।
आरक्षकः - किमर्थम्?
पुरुषः - तस्याः पितरौ आगतौ स्तः गृहम्। सा कथितवती, "तयोः कृते किमपि आनयतु।"
आरक्षकः - किन्तु ताडनं किमर्थम् ?
पुरुषः - मया टैक्सीयानम् आनीतम्।
No comments:
Post a Comment