Sunday, 7 January 2018

पुणेनगरीयः मूषकः

मूषकः एकः वृक्षे आरूढवान्।
वृक्षे उपविष्टः मर्कटः तर्जनस्वरेण, "रे मूर्ख..
किमर्थं वृक्षे आरोहसि?"
मूषकेनोक्तम्, "चिकुफलं खादितुम् आरोहन् अस्मि"।
तच्छ्रुत्वा उच्चैः हसन् मर्कटः भणितवान्,
"रे मन्द, एषस्तु आम्रवृक्षः अस्ति"।
शान्तमनसा किन्तु उद्धतरवेण मूषकः कथितवान्, "भोः। अलम् उपदेशनेन। जानेऽहमपि यद् एषः आम्रवृक्षः । किन्तु चिकुफलानि मया आनीतानि सन्ति मया सह।"

मूषकः पुणेनगरीयः अस्ति एतत् प्रमाणीकरोति एषा घटना।
😇😇😇


1 comment: