Sunday, 7 January 2018

रविवासरे विलम्बेनैव उत्थातव्यं , न तु सूर्योदयात् प्राक्

धीवरः रविवासरे सूर्योदयात् प्राक् एव उत्थितः। अन्धकारकारणात् सः समययापनार्थं नदीतीरे उपविष्टः। नदीतीरे तेन अष्ठीलाभिः (pebbles) पूर्णं स्यूतमेकं दृष्टम्। सः स्यूतात् अष्ठीलाः निष्कास्य नद्यां दूरातिदूरं क्षिप्तुमारब्धवान्। यदा एकमात्रा अष्ठीला शेषा आसीत्, सूर्यः उदेतः।

सः स्वहस्ते गृहीतां निःशेषाम् अष्ठीलां सूक्ष्मदृष्ट्या निरीक्षितवान्। तदा प्राप्तं यद् एतद् तु हीरकं न तु अष्ठीला। तेन बहूः अष्ठीलाः नद्यां क्षिप्ताः आसन् इति विचारेण पश्चात्तापदग्धः अभवत् सः।

तात्पर्यः - रविवासरे विलम्बेनैव उत्थातव्यं , न तु सूर्योदयात् प्राक्।

😜😜😜😜😜.

No comments:

Post a Comment