Wednesday, 10 January 2018

जागतिकीकरणस्योदाहरणम्

जागतिकीकरणस्योदाहरणम्

आङ्ग्लदेशीया राजकन्या इजिप्तदेशीयेण मित्रेण सह फ्रान्सदेशीये सुरङ्गान्ते जर्मनदेशीयेन कारयानेन प्रयाणं कुर्वती मृता। तत् कारयानं बेल्जियमदेशीयः चालकः स्काटलैंडदेशीयं मद्येन उन्मत्तः भूत्वा चालयन् आसीत्। जापानदेशीयं बाईकयानं चालयद्भिः इटलीदेशीयैः पत्रकारैः अनवरतम् अनुस्रियमाणास्ते अमेरिकादेशीयस्य भेषजे नीताः, यत्र ब्राझीलदेशीयैः औषधैः कृताः वैद्योपचाराः विफलीभूताः, तत्रैव मृताश्च घोषिताः।

एतत् सर्वं भवन्तम् एकः भारतीयः यूक्रेनदेशीयाभ्यां वैज्ञानिकाभ्यां निर्मितेन व्हाट्सैपतन्त्रांशेण प्रेषयन् अस्ति। भवान् तद् Android उत iPhone सञ्चे पठन् अस्ति यच्च ताईवाने निर्मितैः कृतन्त्रैः (chip) सञ्चालितमस्ति, यस्य पटलं कोरियादेशे उत्पादितमस्ति, यस्य आस्थानं (assembly) सिङ्गापूरे यन्त्रागारे बाङ्ग्लादेशीयैः कर्मचारिभिः कृत्वा पाकिस्तानिभिः ट्रकचालकैः विक्रयागारेषु प्रापितमस्ति।

No comments:

Post a Comment