अन्ये न्यूनाः न गणनीयाः, स्वयम् महाजनं च न भाव्यम्। याहुः आन्तरजालस्य गतिः प्रतीयते एतत्।
1998 मध्ये यदा गूगलः शैशवे (सद्यारब्धः) आसीत् तदा तं विंशतिलक्षरुप्यकात्मके मूल्ये क्रेतुं याहुसंस्था लब्धावसरा। किन्तु तया न निराकृतम्। गूगलस्य पृष्ठस्थानाङ्कनविधिकल्पः (page ranking algorithm) अनर्हः अस्ति इति तस्याः मतिः।
2005 मध्ये पुनः गूगलक्रयणावसरः प्राप्तः। गूगलस्य मूल्यं 5 कोटिमितमासीत्। याहुसंस्था एतावत् मूल्यं प्रदातुं समर्थापि आसीत्, किन्तु एतन्मूल्याङ्कनं गूगलस्य अर्हतायाः अधिकतरम् इति प्रकीर्तितं याहुना।
2008 मायक्रोसोफ्टसंस्था याहुं 45 कोट्यात्मके क्रेतुम् उद्यतः। किन्तु याहुसंस्था आत्मानं ततः अपि अधिकं मूल्यवती मत्वा स्वविक्रयं निराकृतवती।
किन्तु चोद्यं पश्यन्तु। अद्यैव याहुसंस्था वेरीझोनसंस्थया क्रीयते 4.8 कोट्यात्मके। गूगलस्य च मूल्याङ्कनं 500 कोटिमितं वर्तते।
तात्पर्यम् - आत्मश्लाघनेन, अन्यभर्त्सनेन मानक्षतिः तु निश्चिता।
No comments:
Post a Comment