एकः पुणेनगरीयः वृद्धः कोथरूडबसस्थानके ऑटोयाने आरूढवान् , एके चतुष्टये, यत्र शिवाजीमहाराज्ञः शिल्पम् आसीत् तत्र अवतरितवान्।
वृद्धः - कति रुप्यकाणि ?
ऑटोचालकः - 32 रुप्यकाणि
वृद्धः तस्मै 40 रुप्यकाणि अयच्छत्
ऑटोचालकः - परिवर्तः नास्ति मत्सकाशं, 8 रुप्यकाणि दातुं न शक्नोमि।
वृद्धः - एवं वा? एवं सति यावत् अन्तरमापकः (मीटर्) 40 रुप्यकाणि न दर्शयति, तावत् एतस्य शिल्पस्य परितः ऑटोयानं चालयन् प्रदक्षिणाः कुरु।
ऑटोचालकः निभृतः सन् परिवर्तम् अददात्।
यथार्थतां, परिपूर्णत्वं च अधिगन्तुं केचन आजन्म भूरिपरिश्रमान् कुर्वन्ति , अन्ये च पुणेनगर्यामेव जनिं लभन्ते। 😜😜😝😝😆😆
No comments:
Post a Comment