सुविख्यातजनान् आदृत्य नूतनानि रेलयानानि घोषितानि एतावता :-
मोदिः एक्सप्रेस् :- गन्तव्यस्थानं प्राप्तिं यावत् न एकवारमपि विरमति।
बप्पिः लहिरिः एक्सप्रेस् :- शृङ्खलायां कृष्टायां सत्याम् अन्या शृङ्खला प्राप्यते।
एकता कपूरः एक्सप्रेस् :- एकस्यां वेदिकायामेव मन्दगत्या त्रिवारम् आगच्छति।
आमिरः खानः एक्सप्रेस् :- वर्षे एकवारं चलति, यात्रिणः स्वयं चिनोति।
सलमानः खानः एक्सप्रेस् :- पादचारीमार्गेऽपि चलति।
मनमोहनसिंहः एक्सप्रेस् :- एकमेव नीरवं रेलयानम्।
धोनिः एक्सप्रेस् :- 95% प्रयाणे 10 किलोमीटरमितं प्रतिहोरया वेगेन चलति। अन्तिमे 5% चरणे 400 किलोमीटरमितं प्रतिहोरया वेगेन धावति।
ममता बनर्जी एक्सप्रेस् :- गन्तव्यस्थानात् विपरितदिशि चलति।
राहुलः गान्धिः एक्सप्रेस् :- अनवधानेन नित्यं स्खलति।
काङ्ग्रेसः एक्सप्रेस् :- अनुभवी चालकः सर्वासु प्रकोष्ठिकासु (bogie), किन्तु पुरोवर्तिप्रकोष्ठिकाया: (engine) चालकस्य एव कार्यावकाश: अस्ति|
अमित: शहा एक्स्प्रेस् :- देहलिं विहाय अखिले राष्ट्रे चलति|
केजरीवाल: एक्स्प्रेस् :- रेलयानप्रस्थानं तु निश्चितम्| किन्तु गन्तव्यस्थानं प्राप्तुं महती आशङ्का| चालकेन मध्ये एव याने त्यक्ते सति शेष: प्रयाण: एव खण्डित: भवति|
अन्ते च, रेलसेवाया: महाराजन् :-
रजनीकान्त: एक्स्प्रेस् :- रेलयानं तु एकत्र स्थिरं तिष्ठति, सर्वे रेलस्थानका: एव आवागमनं कुर्वन्ति|