Thursday, 2 August 2018

नैव गच्छामि नैव गच्छामि

माता - अद्य कुमारागारं (nursery) नैव गच्छसि?


बालः नैव नैव!


माता - किमर्थम्?


बालः - ह्यः शिक्षिका मम  तोलनं कृतवती यदि अद्य गच्छेयं तर्हि सा मम विक्रयणं कुर्यात्।।












.

Monday, 23 April 2018

चालने ममैव दोषः

मार्क जुकरबर्गवर्यस्य कार्यानं दिल्ल्यामेव सङ्घट्टो जातः

 कोपेन दिल्लीपुरुषः - किं त्वं जानासि अहं कः इति? कुत्र दृष्ट्वा चालयति मूर्ख!

मार्क - आम् अवश्यं जानामि भवान् तु धीरपालः मुखपुस्तके ३२१ मित्राणि सन्ति भवतः तत्र शताधिकाः तरुण्यः एव तासु ४० तरुण्यः भवतः पत्न्याः कृते अपरिचिताः ननु गतवर्वे किं भवान्  टाइलैंड एव गतवान् किल! तत्र भवान् ----


दिल्लीपुरुषः - अयि भ्रातः गच्छतु भवान्! चालने ममैव दोषः 🙏🙏🙏









.

Tuesday, 3 April 2018

आततिं विस्मरामि

वेद्यः 👨‍⚕इतःपूर्वं यदि आततिं प्राप्स्यति तर्हि किं कृतवान् ?

रोगी 🤒 ~ यदा यदा आततिं प्राप्नोमि तदा तदा मन्दिरं गमिष्यामि स्म।

वैद्यः 👨‍⚕ओ!  उत्तमम् मन्दिरे  ध्यानमग्नो भवति वा?

रोगी 🤒 नैव नैव अहं मन्दिरस्य बहिः स्थित्वा तत्र स्थापितानां पादरक्षाणां मिश्रणं करोमि स्म तत्पश्चात् दूरे उपविश्य जनानां सम्भ्रमं
अवलोक्य मम आततिं विस्मरामि स्म ।। 

Sunday, 1 April 2018

महिलानां कारचालनरीतिः

महिलानां कारचालनरीतिः अतुल्या, अद्वितीया च। न कोऽपि तां समाह्वातुं धार्ष्ट्यं करोतु। एतस्य उदाहरणं पश्यन्तु ..............

अपघातानन्तरं क्रोधाविष्टः पुरुषचालकः अन्यं कारयानं चालयन्तीं महिलां उद्गीरितवान्, "भवतीम् अहं कारस्य अग्रस्थान् दीपान् उद्दीप्य संसूचितवान् यत् अहं अग्रे गन्तुम् उद्युक्तः, किञ्चित् वामतः सरतु इति।"

महिलाचालकः - महाशय, अहमपि पार्श्वस्थौ काचकमार्जकौ दोलयित्वा मम निराकृतिं प्रकटितवती, एतदपि नावगतं वा भवता? ..............

महिलायाः च अद्भुतामेनां युक्तिं श्रुत्वा पुरुषचालकः मूर्च्छितः ........
😜😝

पाकिस्तानस्य स्थितिः ओलाम्पिके

क्रीडाक्षेत्रम् अधिकृत्य पाकिस्तानीयः पत्रकारः ट्विट्टायते (tweeted), ओलिम्पिकक्रीडाशृङ्खलायां भारतस्य 119 क्रीडालुषु केवलं एका क्रीडालुः पदकं विजितवती, तद् अपि कांस्यपदकम्। किन्तु भाभारतदेशः तु सन्तोषोत्सवातिरेकेण प्रख्यापयति यथा तैः विंशत्यधिकाः सुवर्णपदकाः प्राप्ताः ।

एकः भारतीयः ट्विट्टुत्तरायते (retweeted), "महोदय, भवतः देशे तु विश्वस्य सर्वाधिकानां भयोत्पादकानां निर्माणं, वर्धनं च भवति। एवं सत्यपि कथमेकोऽपि क्रीडालुः लक्ष्यभेदक्रीडायां योग्यतापादनेऽपि अर्हतां न प्राप्तवान् (didn't even get qualified)??

परिचारिकायां स्नेहः

रूग्णः (परिचारिकां) :- त्वयि स्निह्यामि अहम्। त्वया तु हृदयं चोरयितं मे।

परिचारिका (सत्रपम्) :- अनृतं वदसि वा? मया तु हृदयं स्पर्शमपि कृतं नास्ति। म्यांमार केवलं वृक्कं (kidney) मुष्टम्।💥💥💥💥

अङ्कीयभारतयोजना, मद्यपः

पत्रकारः मद्यपं पृच्छति, "अङ्कीयभारतयोजना (digital India) फलदायिनी भासते वा?"

मद्यपेन उद्गीरितं, "यावत् अहं फ्लिपकार्टेण मद्यकूपीं क्रेतुं, olx मध्ये रिक्तकूपीं च विक्रेतुं न शक्नोमि, तावदहं परियोजनामेनां यशस्विनी इति न मन्ये।"
😛😛😛😛😅😅

Brazil Olympics vs Nagpuri boys

नैकाभिः युवतीभिः ब्राजीलदेशं गत्वा तत्र खेलित्वा पदकाः च आनीताः.....

किन्तु नागपूरीयेभ्यः युवकेभ्यः तु केवलं समीपस्थात् ताम्बूलापणात् तमाखुक्रयणार्थं गमनमपि क्लेशायते !!
😂😂😂😂😂😂😂😜😜

वीरेन्द्रः सेहवागः ट्विट्टरुत्तरायते

ब्रिटैनीयः पत्रकारः ट्विट्टरायते, "120 कोटिजनसङ्ख्यात्मकेन भारतेदेशेन केवलं द्वे पदके अधिगते। अहो लज्जास्पदम्।"

वीरेन्द्रः सेहवागः ट्विट्टरुत्तरायते, "वयं भारतीयाः तु स्वल्पेषु यशस्सु अपि मोदामहे। किन्तु मां कथयतु , भवतः देशे एव क्रिकेटखेलः उत्पन्नः, तद्यपि भवद्देशेन तु विश्वचषकं तु एकवारमपि न जितम्। एतस्मात् लज्जास्पदं किं भवेदन्यत्?"

ऑटोरिक्षाचालकानां कर्मन्यासम्

सामान्यजनः ऑटोरिक्षाचालकम् :-अत्र (गन्तव्यस्थानं) चलति वा?
ऑटोरिक्षाचालकः :- न चलामि (इत्युक्त्वा अग्रे गतः)। (प्रायः अलसवशात् वा अल्पम् एव अन्तरम् भवेत् इति बुद्ध्या।)
अतः सामान्यजनः ओला/उबेर् तन्त्रांशेण कारयानम् आहूय गच्छति।
ऑटोरिक्षाचालकः - ओला/उबेर् एतेषां तु प्रकोपः अस्ति। अस्मत्व्यवसाये अस्माकम् उदरनिर्वाहे हानिः कृता अस्ति एतैः। वयं निषेधं कुर्वः, कर्मन्यासं कुर्वः, आन्दोलनं कुर्वः। यावत् सर्वकारः ओला/उबेर् संस्थानां व्यवसायं न स्थगयति तावत् वयं ऑटोरिक्षां न चालयावः।

प्रसारमाध्यमाः :- अनेन व्याजेन वयं मोदिसर्वकारे दोषारोपणं कुर्वः।

विरोधिपक्षिणः :- मोदिना एव ओला/उबेर् संस्थाभिः सह मिलित्वा कुतन्त्रं रचितमस्ति।

गणेशविसर्जनस्य शोभायात्रा

!! पुणेनगरीयः फलकः !!

सर्वे पुरुषाः, एषा गणेशविसर्जनस्य शोभायात्रा अस्ति, न तु पत्न्याः स्वमातृगृहगमनस्य आनन्दोत्सवः।
अतः अत्र नर्तने नियन्त्रणः विधीयताम्।
😀😝

जलम् vs मद्यम्

(तामिलनाडुकर्नाटकराज्ययोः मध्ये कावेरीनदीम् अधिकृत्य विवादविषये)

एकदा जलः मद्यं पृष्टवान्, "जनाः त्वयि तु मदधिकं स्निह्यन्ति। एवं कथम्?"
मद्येन उक्तं, "यतः त्वं जनान् विभाजयसि किन्तु अहं जनान् सङ्घटयामि।"
🍺🍺🍺🍺

iPhone 7

स्थूलः :- त्वया *iPhone 7* क्रीतं वा?

कृशः :- न !!! येन वा यया सह वक्तुमिच्छामि, तस्य वा तस्याः गृहम् अहम् ओलासंस्थायाः कारयानेन गत्वा वार्तालापं करोमि। एतस्मिन् आयफोनापेक्षया अल्पतरमूल्यस्य व्ययः भवति।😂

भारमापनम्

पुत्रः :- पितः इतः परं न गमिष्याम्यहं पाठशालायाम्।
पिता :- किमभवत् वत्स?
पुत्रः :- अद्य शिक्षकः मम भारमापनम् अकरोत्। मम तु संशीतिरस्ति यत् श्वः सः मां विक्रेष्यति, यथा आपणेऽपि वस्तुनः मापयित्वा विक्रीयन्ते।

Wednesday, 21 March 2018

कार्यभाराधिक्यम्

पतिः पुत्रं पाठशालातः गृहमानीतवान्। गमनागमनसमये अपि सः अनवरतेषु वृत्तिमधिकृत्य दूरध्वनिवार्तालापेषु व्यग्रः आसीत्। सः पत्नीं पृष्टवान्, "आवयोः पुत्रः क्रान्दं क्रान्दमेव आगतः। एतस्य स्वास्थ्यं सम्यक् नास्ति वा?"

"न", पत्नी उत्तरयति, "सः आवयोः पुत्रः नास्ति। एतत् कथयितुं प्रयत्नान् कारं कारं सः रुदन् अस्ति।"
😊😀

चिरन्तनप्रीतिः

वृद्धः एकः केनापि पृष्टः, "आ सप्ततिवर्षेभ्यः भवान् पत्नीं प्रियतमे, मधुरे, प्रेमिके इति सम्बोधयन् अस्ति। किं रहस्यमेतस्य चिरन्तनप्रीत्याः।"

वृद्धः, "प्रेम्णः विषयः नास्ति एषः। अहं  तस्याः नाम विस्मृतवान्। तत् प्रष्टुं धार्ष्ट्यं नास्ति मयि।"

फवादमहोदयः

पाकिस्ताने कुत्रचिदपि :-
साक्षात्कारी :- फवादमहोदय, भवान् भारतदेशं किमर्थं त्यक्तवान्।
फवादः :- भारते राष्ट्रीयं स्वच्छीकरणाभियानं प्राचलत् यस्मिन् अखिलं मालिन्यं अपवारितम्। तस्यांशोऽहं भारतेण त्यक्तः।

स्कुटीसुधारकः

😁स्कुटीसुधारकः
महोदये, यन्त्रे पर्याप्तं तैलं नास्ति
स्थगनसाधनमपि निष्प्रयोजिकः
.
👸 महिला :
एताः तु न्यूनतराः समस्याः सन्ति
भवान् दर्पणयोः सुधारं करोतु..!
🙆💃💅💄💋

व्यस्तः पतिः

😜😭😭😝😜😣😳😄

पत्नी पतिं ताडयन्ती आसीत्।
प्रतिवेशी उक्तवान्, "किमर्थं ताडयसि वराकमेनम्??"
पत्न्योक्तम्, "एषः वराकः नास्ति। यदा  एतं दूरध्वनिं कृतवती, तदा महिला एका एतस्य दूरध्वनिमुत्थाप्य उक्तवती, 'येन साकं सम्पर्कं कुर्वती भवती, सः साम्प्रतं व्यस्तोऽस्ति।' ......."

मद्यम्

पत्नी :- आपणं प्रतिष्ठे अहम्। भवान् किमानेतुमिच्छति?

पतिः :- अहं मम आयुषि कोऽपि लक्ष्यमिच्छामि। मम जीवनस्य हेतुः कः एतदन्विष्टुमिच्छामि। मम आत्मा सन्तृप्त्या, सम्पूर्णत्या च संवलितः भवेत् इति कामयेऽहम्। भगवता सह नैकट्येन अध्यात्मानुभूतिं च अवेक्षेऽहम्......

पत्नी :- स्पष्टं कथय। ब्लैक् लेबल्🍻 वाञ्छसि उत चिवास् 🍺



तिलकणः

एका पौराणिककथा अस्ति यस्मिन् एकः एव तिलकणः सप्तजनैः विभाज्य खादितम्।
अद्यत्वे तथा एव
कोऽपि रुग्णः प्राप्ते सति

👷वैद्यः ,
🤓🤓समुपदेशकः ,
😎 विशेषज्ञः ,
🤒रक्तपरीक्षणप्रयोगशाला ,
विकिरणचिकित्सकः,
🏥औषधविक्रेता
👨👨रुग्णालयकर्मचारिणः

सर्वे रुग्णात् प्राप्तं धनं विभाज्य उपभोक्तुम् उद्यताः सन्ति।
अतः आरोग्ये जागरूकता विधेया, निरोगिणः भवेयुः।
अन्यथा भवतः स्थितिः तु निश्चयेन तिलसदृशी भवेत्।
😬😁😐😑😒😞😟🙄🤔

पाटलपुष्पम्

पुणेनगरीयां पाठशालायां घटिता घटनैषा। एकः शिक्षकः छात्रस्य पितरम् आक्षेपपत्रं प्रेषितवान्, यस्मिन् लिखितमासीत्,

"पाठशालां प्रेषणात् प्राक् भवतः पुत्रं स्वच्छं स्नापयतु , स्वच्छाणि वस्त्राणि च तं परिधापयतु। नित्यं दुर्गन्धः आयाति तस्य शरीरात्।"

जोशीमहोदयः (छात्रस्य पिता) प्रत्युत्तरं प्रेषितवान्, "मम पुत्रः पाटलपुष्पं नास्ति यत् सुगन्धं सृजति। भवान् एतत् सर्वमविगणय्य अध्यापने एव अवधानं विदधाति चेत् वरम्।..👳 "
😆😜😀😛😆😄

Monday, 19 March 2018

उपसर्पणम् (zoom in)

जङ्गमदूरवाणिसञ्चोपयोगस्य एतावता अतिरेकं भूतमस्ति, ह्यः प्रतिवेशिनि आसन्दे उपविष्टः एकः सहसैव वृत्तपत्रस्थं चित्रं द्वाभ्याम् अङ्गुलीभ्यां नुत्त्वा उपसर्पणं (zoom in)कर्तुम् उद्यतः।
😀😀😀

यानमार्जनवस्त्रम्

भग्नं प्रेम पुनः लभेत किन्तु चोरितं यानमार्जनवस्त्रं तु न कदापि लभेत। 
अहो जघन्यं चौर्यम्।
😀😀😀

स्वयम्प्रचोदनप्रणाली

स्वयम्प्रचोदनप्रणाल्याः (self start) योजनेन तु अधुना चपेटाप्रहारेण अधः पतन्तः कृशयष्टयः जनाः अपि स्थूलकायं बुलैटयानं चालयन्तः उपश्लाघां प्रदर्शयन्ति।
😀😀😀

धार्मिककार्यक्रमाः

अद्यत्वे तु दूरदर्शने धार्मिककार्यक्रमाणाम् एतावान् अतिरेकः जातः अस्ति यत् शयनसमये पादौ दूरदर्शनसञ्चस्य दिशि प्रसारयितुं धार्ष्ट्यमेव न भवति, शापितः तु न भविष्यामि इति भीत्या
😀😀😀

गान्धारी कुन्ती च

*गान्धारी* : मम सर्वे पुत्राः ATM पङ्क्तौ स्थित्वा प्रत्येकः द्विसहस्त्ररुप्यकाणि निष्कासितवान्। अनेन मया द्विलक्षरुप्यकाणि प्राप्तानि।

*कुन्ती* : वृथैव भूरिश्रमाः कारिताः त्वया पुत्रेभ्यः। मम पञ्चैः पुत्रैः द्रौपद्या सह विवाहं कृतं यस्य कृते प्रत्येकेण सार्धद्विक्षरुप्यकाणि, सर्वमादाय सार्धद्वादशलक्षरुप्यकाणि  अधिगतानि।
💃🏻💃🏻😜😜😜😝🙄😇😇

तृतीयः विवाहः

पुत्रद्वयानां मातुः तृतीयः विवाहः सम्पद्यमानः आसीत्।
प्रदक्षिणावेलायां एकः पुत्रः रोदितुम् आरब्धवान्। बहुधा अनुनीयमाने, बोध्यमाने अपि तस्य रोदनं न स्थगितम्।
अन्ते च आतङ्किता वधू उक्तवती, "तूष्णीं भव पुत्र, अन्यथा मम अग्रिमे विवाहे त्वां न नेष्यामि।"

वरः मूर्च्छितः मण्डपे एव😛😛😛😛

दण्डः vs करः

*व्यावसायिक:* :- दण्डः इत्युक्ते किम्?
*प्रशासनिकः लेखपालः* :- कुकर्मणे प्रदत्तः करः दण्डः इति कथ्यते।
*व्यावसायिक:* :- करः इत्युक्ते किम्?
*प्रशासनिकः लेखपालः* :- सुकर्मणे प्रदत्तः दण्डः करः इति कथ्यते।

वयं राष्ट्रं न विक्रीणीमः

राजनेतुः महार्घकारयाने चतुष्टये स्थगिते जाते ध्वजविक्रयकः बालः एकः राष्ट्रध्वजं विक्रेतुं कारस्य नैकट्ये आगतः। किन्तु उद्धतः राजनेता न केवलं ध्वजं क्रीतवान् प्रत्युत तं बालमेव तर्जितवान्, 
"सर्वदा त्वं किमपि विक्रयणे समयव्ययं करोषि -- कदाचित् वृत्तपत्रं, कदाचित् करवस्त्रं तु कदाचित् क्रीडनकम्। किं वस्तु अस्ति जगति यत् त्वया न विक्रीयते?"
निरुपद्रवः बालः उत्तरितवान्, "वयं राष्ट्रं न विक्रीणीमः।"

सुरक्षादिवसः

कारयानेन अटन् परिवारः एकः परिवहनारक्षकेण स्थगितः।
आरक्षकः :- अद्य सुरक्षादिवसोऽस्ति। सुरक्षोपायान् प्रति जागरूकाय, सुरक्षानियमान् च अनुसरते भवते सर्वकारेण 5000 रुप्यकाणि दीयन्ते उपहाररूपेण। कथयतु किं करिष्यति भवान् एतम् उपहारं अवाप्य?
कारचालकः - आदौ तु अहं यानचालनाय अनुज्ञप्तिपत्रं क्रीणामि।
आरक्षकः - 😳😳😳....??
कारचालकस्य माता - एतस्य वचसः तीव्रान् मा परिगणयतु । मद्यं पिबन् एषः किमपि असम्बद्धं वदति।
आरक्षकः - 😰😰😰....??
तावतैव कारचालकस्य पिता निद्रायाः जागरितः सन् आरक्षकं दृष्ट्वा उद्गीरितवान्, "मया तु आदौ एव उक्तमासीत् यत् एतं चोरितं कारयानं अधिकं दूरं नेतुं न शक्ष्यामः वयम्।
आरक्षकः - 😖 😖😖 मूर्च्छितः .......???

शुभवार्ता

आ रात्रेः वमतीं, प्रातः लिम्बूकं लिहन्तीं स्नुषां दृष्ट्वा सर्वे परिवारजनाः आनन्दिताः, गृहं प्रमोदछायायाम् आवृत्तम्। तस्याः स्वसा वैद्यम् आहूतवती "शुभवार्तां" निश्चितीकर्तुम्।
वैद्यः आगतः, तां परिशीलितवान्, तस्यै सूच्यौषधं दत्त्वा उक्तवान्, "सा शीघ्रमेव सामान्यस्थितौ आयास्यति।"
स्वसा - महोदय, किमभवत्। एषा स्वस्थास्ति किम्?
वैद्यः - अलं चिन्तया। 
स्वसा - सूच्यौषधं किमर्थं दत्तम्?
वैद्यः - एतत् सुषवप्रभावनाशकौषधम् (anti alcohol)। अनेन तस्यां स्थितः मद्योन्मादः अपवार्येत। मद्यसेवने परिवर्तनेन एषा समस्या उत्पद्यते। 
😜😜😂😂😂😂

चतुरङ्गक्रीडा

चतुरङ्गक्रीडा तु विवाहितपुरुषस्थितेः द्योतका, यस्यां वराकः राजा केवलं एकं पदम् अग्रे स्थापयितुम् अर्हति किन्तु सामर्थ्यशालिनी राज्ञी तु कुत्रचिदपि कतिचिदपि स्थानान् आक्रान्तुं शक्नोति।

Sunday, 18 March 2018

अर्चकः, अधिवक्ता, राजनेता

💥💥💥💥💥💥💥
प्र. :- अर्चकः, अधिवक्ता,  राजनेता एतेषु भेदः कः?
उ. :- अर्चकः असत्यं न कदापि वदति, अधिवक्ता सत्यं वक्तुम् अक्षमः। राजनेता तु सत्यासत्ययोः भेदः एव न जानाति।
- आर्. के. लक्ष्मणमहाभागः

हैदराबादीयः आटोचालकः

✈✈✈✈✈✈✈✈✈
अमेरिकादेशे विमानः एकः दुष्करवातावरणेन दुष्प्रभावितः सन् नियन्त्रणात् च्युतः जातः, पर्वताणां समीपे आगतः।
किन्तु अनुभवी, कुशलः विमानचालकः विमानं पर्वताणां वलित्वा, यथा पर्वतान् न घट्टयेत् तथा वक्रं मार्गक्रमणं कृत्वा सुरक्षितस्थितौ विमानपत्तने अवतारितवान्, अपघातं च परिहृतवान्।
विमानपत्तने सर्वैः अभिनन्दितः सत्कृतः सः केनापि कौतुहलवशात् पृष्टः, "एतादृशः कौशलः भवता कुतः प्राप्त? "
तेनोक्तम्, "इतः पूर्वम् अहं हैदराबादे आटोयानचालकः आसम्"।
🤔😆😜😅😎😄😂😇

हृदये निवासम्

अहो कीदृशाः संशीत्यः आयान्ति पत्नीनां मनस्सु।
पत्युः हृदयचिकित्सासाफल्यात् अनन्तरं सा चिकित्सकं पृष्टवती
अस्त ❤हृदये कापि अन्या🙆 निवसती आसीत् किम्?!!! 
😜😜😜😜😜😜😀😀😀😀😀😀😀

न्यूना विद्युच्छक्तिः

👩युवती - मम 📱 सदा एव मम मातुः सकाशमेव अस्ति।
👦युवकः (तस्याः सखा) - एवं सति अहं दूरध्वनिं करोमि चेत् सा जानीयात् मद्विषये, न हि?
👩युवती - चिन्तामास्तु, तव क्रमाङ्कः मया "न्यूना विद्युच्छक्तिः" (battery low) इति नाम्ना रक्षितोऽस्ति।😂😂😂
तव दूरध्वन्याह्वाने प्राप्यमाणे मम माता तत् "न्यूनशक्तेः अधिसूचनां" मत्वा 📱सञ्चं शक्तिपूरणाय मह्यं यच्छति।
युवत्याः युक्त्यतिरेकम् दृष्ट्वा साश्चर्यं मूर्च्छितः युवकः।
😂😂😂😂😂😂😂

अवकरकण्डोलः

पुणेनगरे स्वारगेटबसस्थानके मुम्बईनगरीया महाविद्यालयीया युवती एका स्थगितं बसयानं दृष्टवती। तस्मिन् यानम् आरोढुम् इच्छन्ती, यानम् आरब्धुं प्रतीक्षमाणा सा भर्त्सनस्वरेण बसयानायोजकं (conductor) पृष्टवती, "एतत् कण्डोलं दूरं कदा नीयते?" 
बसयानायोजकः - अवकरैः पूर्णः भवति चेत् अनुक्षणमेव।
तात्पर्यः - पुणेनगरीयेण बसयानायोजकेन सह वितण्डनं न करणीयम्
🤣🤣🤣😃😃😃😃🤣🤣

याचकः

याचकः - महोदय, अतीव क्षुधितोऽहम्। कृपया पञ्चरूप्यकाणि यच्छतु।
पुणेनगरीयः - मत्सकाशं 100 रुप्यकमुद्रास्ति। 95 रुप्यकस्य परिवर्तः अस्ति किं त्वत्सकाशम्?
याचकः - आं महोदय। अस्ति मत्सकाशम्। 
पुणेनगरीयः - एवं सति आदौ तान् 95 रुप्यकान् तु व्ययीकुरु, अनन्तरं याचनां कुरु।
🤣🤣🤣😃😃😝😝

Wi-fi कूटशब्दः

पुणेनगरे एकस्य निःशुल्कस्य वितन्तुसञ्चारजालस्य (free wi-fi) कूटशब्दः, "हे याचक"।
🤣🤣🤣😃😃😃😃🤣

निषिद्धं कन्या-आवासगमनम्

शिक्षकः पुरुषछात्रान् :- कन्या-आवासं प्रति गमनं निषिद्धमस्ति। यदि कोऽपि एतं नियमम् उल्लङ्घति, तेन ₹100 रुप्यकात्मकः दण्डः प्रदेयः भवेत्...😳
यदि कोऽपि पुनः तत्र गच्छेत् तर्हि दण्डः ₹200 भवेत्...😲
तृतीयवारं केनापि गम्यते चेत् ₹500 !!!😱
एकः छात्रः - आचार्य, तत्र गमनार्थं मासिकचिटिकार्थं कियान् व्ययः भवेत्.....!!!!
😜😜😜😜😝😝😝😝😝😝

त्रुटिनाम् अवेक्षणम्

😀
शिष्यः - गुरुवर्य, मयि स्थिताः त्रुटयः कथम् अवेक्षणीयाः? कृपया साहाय्यं करोतु।
गुरु: - एतां सुलभसमस्यां निवारयितुम् एतावत् दूरम् आगतस्त्वम्? एतस्याः तु समाधानमपि सुकरम्। तव पत्नीं वदतु यत् सा स्थूला संवृत्ता अस्ति। अनुक्षणं सा न केवलं त्वदीयान् अपि तु तव कुले आ सप्तवंशेभ्यः संस्थितान् त्रुटिन् ज्ञापयिष्यति।
😂😂

विद्युदपगमनम्

अमेरिकादेशे विद्युत् अपगच्छति चेत् जनाः विद्यदापूर्तिकार्यालये दूरध्वनिं कृत्वा पृच्छां कुर्वन्ति। 😁
जापानराष्ट्रे यदा विद्युत् अपगच्छति, तदा जनाः फ्यूज् परीक्षणं कुर्वन्ति।😯😊
किन्तु भारते यदा  तथा भवति तदा......
सर्वे बहिः आगत्य प्रतिवेशिनां गृहेष्वपि विद्युत् अपगता ज्ञात्वा संतृप्ताः भवन्ति।
😅😅😅😂😂

कारयानस्य क्षालनम्

पप्पुः कारयानं क्षालयन् आसीत्। तावता एव एका महिला तत्रागता, पृष्टवती च "कारयानं क्षालयन् असि?"😁😁
सिद्धोत्तरः पप्पुः व्यङ्गात्मकरूपेण उक्तवान्, "न हि, अहं तु कारयानेजलं सिञ्चामि येन तत् वर्धित्वा बसयानं भविष्यति।
महिला मूर्च्छिता 😝😝

वैकल्पिकः पाठः

वैद्यः - भवतः स्थितिः महती क्लिष्टा।
रुग्णः - किम् अभवत् वैद्य?
वैद्यः - पाठ्यक्रमे वैकल्पिकः आसीत् इत्यतः मया एकः पाठः दुर्लक्षीकृतः आसीत्। भवान् येन रोगेण ग्रस्तः सः ज्वरः तस्मिन् एव पाठे विवृतः आसीत्। 😇 

Friday, 2 March 2018

कथं न धावेयम्

कथं न धावेयम्
रमेशः ~ अरे! किमर्थं त्वं शस्त्रक्रिया-पर्यङ्कात् पलायितान्?
सुरेशः ~ परिचारिका निरन्तरं वदति स्म भीतिर्मास्तु आततिं त्यज एषातु सरला शस्त्रक्रिया इति।
रमेशः ~ रे! मूर्ख! तदापि धावितवान् नु कुत्र गतं तव धैर्यम् ? तस्याः वचनानि श्रुत्वाऽपि धैर्येण स्थातुं न शक्तवान् किम्!?
सुरेशः ~ पूर्णं शृणु मन्द! एतत् सर्वं सा वैद्यं प्रति वदति स्म!
😆😆😆😆😄




.

Friday, 16 February 2018

विशिष्टः आयः, अवशिष्टः आयुः

98 वर्षीयेण वृद्धेन👳 सह 18 वर्षीया कन्या 👱♀ परिणीतवती....😳
वार्ताहरेण सा पृष्टा :- एतस्मिन्👳🏻भवत्या 👱🏻♀ विवाहयोग्यं किं दृष्टम्?
कन्या :- अस्य विशिष्टः आयः,
अन्यश्च अवशिष्टः आयुः..
😁😁😁😜😜😁😁😁



विवाहे सप्तप्रदक्षिणाः

विवाहे वधूवरौ सप्तप्रदक्षिणाः किमर्थं कुरुतः?
गणितीयम् उत्तरम् :-
एका  प्रदक्षिणा वर्तुलाकारीया तन्नाम 360 अंशात्मका अस्ति। 360 एषा सङ्ख्या 1 तः 9 सङ्ख्यासु, 7 विहाय अन्याभिः सर्वाभिः विभाज्यते। अतः 7 एषा सङ्ख्या एकनिष्ठा , एकसङ्घत्वं प्रतीयते। सप्तप्रदक्षिणाभ्यः वैवाहिकसम्बन्धाः अपि न केवलं दृढाः अपि तु अविभाज्याः अपि भवन्ति।

पतिपत्न्योः मध्ये सञ्जाताः परिहासपूर्णाः प्रसङ्गाः

पतिपत्न्योः मध्ये सञ्जाताः परिहासपूर्णाः प्रसङ्गाः 
👊👊👊👊👊😂

पत्नी :- अहं द्विषामि त्वाम्
पतिः :- अहो महान् संयोगः

😆😂😆😂😂😂😆😆😆

एकदा पतिः पत्न्याः छायाचित्राणि ग्राहितवान्, स्वयं "वन्यजीवछायाचित्रकारः" इति प्रकीर्तितवान्।

😆😂😆😂😂😂😆😆😆

एका कुशला पत्नी पतिवर्यं लिखितवती :-
अहं सखीभिः सह रात्रिभोजनार्थं गतवती अस्मि। भवतः भोजनं पाककृतिपुस्तकस्य 25 तमे पृष्ठे अस्ति । अखिला सामग्री रिलायंसफ्रेश् इत्यत्र उपलब्धा अस्ति ।

😆😂😆😂😂😂😆😆😆

पत्नी :- हे प्रिय, आवां आगामिनौ शनिवासररविवासरौ महदानन्दे यापयावः।
पतिः :- शोभना कल्पना इयम्। आवाम् सोमवासरे एव मिलावः।

😆😂😆😂😂😂😆😆😆

एकः उच्चपदधारी स्वमित्रं विषादं प्रकटन् उक्तवान्, "कीदृक् युगमेतत्। मम स्वीयकार्यदर्शिणी ह्यः पदत्यागं कृतवती।"
मित्रम् :- किमर्थम्?
उच्चपदधारी :- सा मां पत्न्या सह काफीआपणे दृष्टवती।

😜😝😛😛😝😜😝😝

मेन्धिकालेपनम्

विप्पण्यां💃महिला एका उभयोः हस्तयोः मेन्धिकां (मेहन्दी) लेपितवती। लेपनान्तरं तया परिलक्षितं यत् सा 🚴स्कूटीयानेन एकाकिनी एव आगतास्ति। कथं गृहं गन्तव्यम् एषः यक्षप्रश्नः अधुना। 
चिन्ताग्रस्ता सा एकेन प्रतिवेशिना सज्जनेन दृष्टा, अभिज्ञाता च। सः तां तस्याः एव स्कूटीयानेन गृहं प्रापितवान्।

*गृहं प्राप्य अनेन सज्जनेन ज्ञातं यत् एषा महिला तु स्वगृहं प्राप्ता किन्तु तस्य बाईकयानं तथा तस्य पत्नीम् उभौ अपि विप्पण्याम् एव विस्मृतवान् सः!!!!*

द्वादशमकक्षापरीक्षायै शुभाशंसाः

द्वादशमकक्षापरीक्षायाम् उच्चस्थानम् अधिगन्तृभ्यः तथा उत्तीर्णेभ्यः छात्रेभ्यः निकटभविष्ये अभियन्ता, वैद्यः, अधिवक्ता,  पत्रकारः, इत्यादीन् जीविकोपार्जनमार्गान् अनुसर्तुं हार्दाः शुभाशयाः। 
*तथा*
अनुत्तीर्णेभ्यः सांसदाः, विधायकाः, मुख्यमन्त्री, शिक्षामन्त्री इत्यादिपदान् भूषयितुं शुभाशंसाः। 

शीर्णाः आम्राः

शिक्षकः :- एकस्मिन् कण्डोलके दश आम्राः आसन्। तेषु त्रयः शीर्णाः भूताः। अथ कति आम्राः अवशिष्टाः
छात्रः - 10 😎😎
शिक्षकः :- कथम्?  😄😄
छात्रः :- शीर्णतां गताः सन्तः अपि आम्राः तु आम्राः एव भवेयुः , कदलीफलरूपं तु न धारयेयुः।
सः छात्रः अधुना अधिवक्तृपदं भूषयति इति श्रूयते।
😂😜😂😜😂👍👍

कन्याः रक्षत - कन्याः पाठयत

👩🏻🏭👩🏻🏭👩🏻🏭👩🏻🏭👩🏻🏭👩🏻🏭👩🏻🏭
पुत्रैः नौका निमज्जिता.....
उत्तरप्रदेशे अखिलेशेन....
बिहारे तेजस्विना
समग्रे देशे...राहुलेन ....
🙏 मोदिमहोदयः सत्यं वक्ति -
"कन्याः रक्षत - कन्याः पाठयत"

मुख्यमन्त्री सुवाह्यत्वं परियोजना

बिहारे मुख्यमन्त्री तु  पूर्वतनः एव, केवलं सेवापूरकः (service provider) परिवृत्तः।
एतत् "मुख्यमन्त्री सुवाह्यत्वं परियोजना" (chief minister portability ).
😜😈😂
(एषा हास्यकनिका एतां घटनाम् अधिकृत्य अस्ति :-
https://www.google.co.in/url?sa=t&source=web&rct=j&url=https://www.ndtv.com/india-news/nitish-kumar-ends-meet-on-tejashwi-yadav-likely-to-see-governor-now-1729555%3Famp%3D1%26akamai-rum%3Doff&ved=2ahUKEwiF5sWdlqzZAhUFYo8KHW3iD10QFjAAegQIERAB&usg=AOvVaw2vUjDSiFdag4p30VxG8Qt5&ampcf=1 )

शशकः कच्छपः च

🐢शशकः कच्छपः च🐰परीक्षाम् एकां लिखितवतौ, 📝 🐢कच्छपः 80% अधिगतवान्, 🐰शशकेन 81% अङ्काः प्राप्ताः।
उभौ अपि 🏦अभियान्त्रिकीये महाविद्यालये प्रवेशार्थं गतौ,
किन्तु 85% अङ्काः आवश्यकाः आसन् 😱😨।
😾शशकः प्रवेशं न प्राप्तवान्, किन्तु कच्छपः तु लीलया प्रवेशं प्राप्नोत् 🙀
कथम्?🙊
😁 पाठशालायां प्रथमकक्षायां पाठितां कथां न स्मर्यते किं😥, यस्यां कच्छपः धावनक्रीडायां जितः आसीत्?
😂क्रीडा-श्रेणी (sports quota)... 5% अतिरिक्ताः अङ्काः 😜😃😈
पुनः कच्छपः विजितः😎....
शशकः पराजितः!😌...




नेत्रे निमील्य

सत्यम् उच्यते यत् यदा महिला नेत्रे निमीलति, यस्मिन् सा स्निह्यति तस्य चित्रं दृष्टिपथम् आयाति।
किन्तु पुरुषः यदा नेत्रे निमीलति, तदा न तु एकं चित्रं, प्रत्युत चित्रावली दृग्गोचरीभवति।

सुषमा निर्मला

सुषमास्वराजः + निर्मला सीतारामन्
प्रतिवेशिभिः सह कलहस्य कार्यं महिलाभ्याम् एव आवण्टितम् अस्ति।
😎😎

द्रुतगरिमार्गे अपराधाः

आदरणीय गडकरीमहोदय,
द्रुतगतिमार्गे *गृहे कोऽपि प्रतीक्षमाणः अस्ति* इति सन्देशं बहुषुफलकेषु दृश्यते। तत् पठित्वा एव औत्सुक्यवशात् जनाः जलदगत्या यानानि चालयन्ति, अपघातः च वर्धते। 
भवान् *गृहे पत्नी प्रतीक्षमाणा अस्ति* इति सन्देशयुक्तान् फलकान् स्थाने स्थाने योजयतु। यानानां गतिः क्षीणतां यास्यति, अपघाताः अपि न्यूनीभविष्यन्ति।

वस्तुसेवाकरः

उपहारगृहे भोजनं समाप्य 1000 रुप्यकात्मकं भोजनशुल्कम् अतिरिच्य 180 रुप्यकात्मके वस्तुसेवाकरे प्रदीयमाने सति भासते यत् मोदिवर्यः स्वयमपपि अदृश्यरूपेण भोजनं कृतवान् अस्माभिः सह।🍛
😆😜🤣

गच्छ सिमरन् गच्छ

बुलेटरेलस्य प्रवर्तनानन्तरं 
"गच्छ, सिमरन गच्छ, स्वकीयम् आयुष्यं यथेच्छं जीव"
एतत् वाक्यमपि अमरिशपुरिः समाप्तुं न शक्ष्यति। वाक्यसमापनात् प्राक् एव शाहरुखः पञ्जाबतः देहलिं यावत् प्राप्स्यति।
😜😂😜😂😜😂😜😝

प्रादेशिक्यः समस्याः

विभिन्नप्रदेशेषु विभिन्नाः समस्याः :-
देहलीनगरे "केन कारयानेन अद्य गन्तव्यम्" अस्मिन् विषये जनाः सम्भ्रमिताः।
दुबईनगरे "कया पत्न्या सह अटितुं गन्तव्यम्"  एषा समस्या बाधते।
कैलिफोर्नियानगरे "कस्य पत्न्या सह अटितुं गन्तव्यम्" अनया समस्यया ग्रस्ताः जनाः।
मुम्बईनगर्यां तु विलक्षणसमस्या। "अद्य उपनगरीयरेलयानं कस्मिन् वेदिकायां (platform) आयास्यति" एतद्विषये जनाः आशङ्कितचित्ताः।
😂

(आन्तर)जालः

प्रथमवारं यदा मनुष्येन मत्स्यः जालपाशे बद्धः, तदा मत्स्यः तं मनुष्यम् अशपत...
अद्य त्वं मां सफलतया "जाले" बद्धवान्। किन्तु भविष्ये त्वमपि इतोऽपि सशक्ते जाले पतिष्यसि, तस्मात् जालात् स्वयं मोचयितुमपि न शक्ष्यसि।
आन्तरजालस्य, कुशलदूरवाण्याः प्रयोगात् तु मत्स्यस्य शापवचनानि यथार्थानि प्रतीयन्ते।
😝😝😝😝😝😜😜😜

लोकतन्त्रम्

भीता महिषी अरण्ये पलायिता आसीत्। मूषकः तां पृष्टवान्, "किमर्थं पलायसे?"
महिषी :- वने आरक्षकाः आगताः सन्ति गजं ग्रहीतुम्।
मूषकः - त्वं तु महिषी असि, तव कीदृशः भयः?
महिषी - मित्र, वयं भारतवर्षे निवसामः। अहं ग्रह्ये चेत् मया अग्रिमाणि विंशतिवर्षाणि यावत् न्यायालये प्रमाणीकरणीयम् आपतेत् यत् अहं महिषी अस्मि, गजं नास्मि इति।
एतच्छ्रुत्वा मूषकः अपि पलायनम् आरब्धवान्।
😂😂लोकतन्त्रम् 😂😂

गृहक्षालनम्

युवती :- मम पितरौ गृहं न स्तः, सायङ्काले प्रत्यागमिष्यति, त्वं आगच्छ मम गृहम्, आवां बहु मोदावहे 😉😉😉...           
😥😥😥
युवकः :-  नैव आयास्यामि, गते वर्षे अनेन व्याजेन एव त्वं मां गृहं निमन्त्रितवती, गृहं च क्षालितं त्वया मत्तः😞😒😣😢😥😰😤😤

चीनीया: मुखा:

लिम् नाम मम चीनदेशीयः सहकर्मी अस्ति। एकदा एकस्मिन् पानगोष्ठ्यां, मद्यं पिबता मया लिम् पृष्टः एतावता:-
लिम्, पाश्चिमात्त्यानां "सर्वेषां चीनदेशीयानां मुखानि एकसमानि दृश्यन्ते" इति सोपहासंवचनमं वारं वारम् आकर्ण्य त्वं क्रुद्धसि किम्?
मया उत्तरं प्राप्तं, "लिम् मद्यपरिवेशनस्थानं (bar counter) मद्यम् आनेतुं गतः अस्ति, अहं तस्य पत्नी अस्मि।"
🤔😅😄😂😆😆😆

हरितचायः

अतिथिभ्यः हरितचायं देयम्। तस्य लाभत्रयः एतावता :-
1) अतिथयः अस्मान् "आधुनिकान्" इति भावयन्ति 😌
2) दुग्धस्य व्ययः न भवति 👍
3) हरितचायेन सह पिष्टकस्य आवश्यकता न वर्तते😝
- एकः पुणेनगरीयः


अर्चकमद्यपयोः संवृत्तः संवादः

अर्चकमद्यपयोः संवृत्तः संवादः :-
अर्चकः :- अधिकं मद्यं मा पिब, नरकं गन्तव्यम् भवेत्।
मद्यपः :- मद्यविक्रेतुः का दशा भवेत्?
अर्चकः :- तेनापि नरकं गन्तव्यं भवेत्।
मद्यपः :- यः मद्यापणात् बहिः मांसाहारं विक्रीणाति, तस्य का गतिर्भवेत्?
अर्चकः :- तेनापि नरकं गन्तव्यं भवेत्।
मद्यपः :- सर्वे तत्र उपलब्धाः भवन्ति चेत् मम कापि समस्या नास्ति नरकगमने ।
🍺🍻🍹🍖🍗😋😜

उत्पीठिकाः युगलैः व्यापृताः

😂😂
उपहारं गत्वा सर्वाः उत्पीठिकाः युगलैः व्यापृताः दृष्ट्वा एका महिला रिक्तस्थानं प्राप्तुं अनन्यां युक्तिं प्रयुक्तवती। सा जङ्गमदूरवाणिसञ्चे कयापि सह सम्भाषणम् अभिनयती उच्चैः उक्तवती, 
"सखि, तव पतिः अन्यया महिलया सह उपहारगृहे दृष्टः, त्वमपि अत्रागत्य पश्य"।
अनुक्षणमेव नव पुरुषाः उपहारगृहात् निर्गताः।
😂😂

कृपणः चतुरः च रुग्णः

एकः कृपणः चतुरः च रुग्णः दान्तिकस्य वैद्यालयं गतः, तत्र दन्तोत्पाटनस्य (tooth extraction) शुल्कं पृष्टवान्। 1200 रुप्यकात्मकं शुल्कं महार्घं मत्वा, सः पुनः दान्तिकम् अल्पार्घाणाम् उपायानां विषये पृष्टवान्।

दान्तिकेनोकतम्, "एकः 300 रुप्यकात्मकः उपायः अस्ति, किन्तु अस्यां प्रक्रियायां निश्चेतकं (anasthesia) न युज्यते, येन महती तीव्रा वेदना सोढव्या भवेत् त्वया"।

रुग्णः वेदनापूर्णम् अल्पार्घम् उपायम् एनम् अङ्ग्यकरोत्।

दन्तवैद्यः रुग्णस्य दन्तम् उत्पाटितवान्, किन्तु अहो आश्चर्यम्। अखिलायां प्रक्रियायां प्रचल्यमाणायां रुग्णः तु न केवलं प्रशान्तचित्तः प्रत्युत स्मयमानः आसीत् ।

एतस्य धैर्येण प्रभावितः सन् सः रुग्णात् न केवलं शुल्कं निराकृतवान्, प्रत्युत तस्मै एव 500 रुप्यकाणि "शौर्यपुरस्काररूपेण" दत्तवान् । "भवत्समाः शूराः तु विरलाः अद्वितीयाः च। स्वस्य वेदनाः कथं निगृहीतव्याः, स्वस्य भावनाः कथम् अतिक्राम्याः एषः मूल्यवान् अध्यायः भवतः एव अधीतं मया", एतादृशैः साधुवचोभिः वैद्यः तं प्रशंसितवान् ।

सायङ्काले एषः दान्तिकः अस्य रुग्णस्य शौर्यगाथा सर्वेभ्यः वैद्येभ्यः श्रावितवान्।

कथाश्रवणसमये एतेन प्रसङ्गेण विचलितः सन् एकः अन्यः दान्तिकः झटिति उत्थितवान्, कथाकथने व्यवधानं कृत्वा सातङ्कम् उक्तवान्, "हे भगवन्, एतस्मै रुग्णाय मया एव निश्चेतकं दत्तम्, अर्धहोरां यावत् प्रतीक्षितुं च कथितम्। किन्तु तावता सः पलायितः आसीत्।"

😂🤑🤣😛😝😜🤣🤑😂

तीक्ष्णाधि: मद्यपः

एकः मनुष्यः रात्रौ द्विवादने मद्योनमत्तावस्थायां वैद्यस्य गृहं याति। वैद्यम् उत्थाप्य अपृच्छत्, 
"वैद्यमहोदय, गृहमागमनाय कति शुल्कं अपेक्षते भवान्?"
वैद्यः - २५० ‍रुप्यकाणि केवलम्
मनुष्यः - तर्हि चलतु अधुनैव
वैद्यः स्वयानम् आरब्धवान्, उभौ अपि तस्य गृहं प्रति प्रस्थितौ।
मनुष्यः (गृहात् समीपं प्राप्य) - वैद्यमहोदय, यानं स्थगयतु, मम गृहम् आगतम्।
वैद्यः - अस्तु। रुग्णः क्व अस्ति, तं प्रति शीघ्रं नयतु ।
मनुष्यः (उच्चैः हसन्) - रुग्णं विस्मरतु अधुना। २५० रुप्यकाणि स्वीकरोतु। मध्यरात्रौ रिक्षाचालकाः ५००रुप्यकाणि पृच्छन्ति, अतः भवतः साहाय्यं पृष्टवान्। गच्छतु अधुना।
मद्ये पीते अपि मतिः तीक्ष्णा भवति इत्यत्र प्रतीयते।
😆😆😂😂😂😂😂😂😂

सकारात्मकचिन्तनम् आत्ममविश्वासः च

वैद्यः - भवतः यकृत् स्थूलीभूतः अस्ति।
रुग्णः - तन्नाम अधुना अहं इतोऽपि अधिकं व्हिस्कीमद्यं पातुं शक्नोमि वा?
(*एतत् सकारात्मकचिन्तस्य उदाहरणम्*😄😄)

महिला तस्याः आहारतज्ञाम् :-  अहंं मम औन्न्त्यर्थं चिन्तिता न तु शरीरभाराय।
आहारतज्ञा :- कथमेतत्??
महिला :- मम शरीरभारम् अनुगुणं मम औन्नत्यं ७.८ फूटपरिमितं भवितव्यं, किन्तु अतीव न्यूनं ममौन्न्त्यम्।😜
(*एतत् सकारात्मकाभिवृत्तेः उदाहरणम्*😄😄)

एकेन पुरुषेण वित्तागारं पत्रं लिखितम्, "मया प्रेषितः धनादेशः भवता 'अपर्याप्ता धनराशिः' इति टिप्पण्या सह पुनर्प्रेषितः। अहं ज्ञातुमिच्छामि यत् धनस्य अभावः मम कोषेऽस्ति वा वित्तागारे धनम् अपर्याप्तम् अस्ति?"
(*आत्ममविश्वासः कथं शिखरायते तस्य उदाहरणम्*😄😄)

अधुना एतत् शृण्वन्तु !!
एकस्याः जन्तकायाः (cockroach) अन्तिमशब्दाः तस्याः मारकम् उद्दिश्य, "हे भीरो, यथेच्छं मारय माम्।  तव मद्विषये ईर्ष्या स्पष्टतया दृश्यते यतो हि अहंं तव पत्नीं भाययितुं समर्थोऽस्मि किन्तु त्वं तु स्वपत्न्याः एव बिभेषि।
😅😅😅

अमेरिकीयाः चित्रपटाः भारतीयाः चित्रपटाः च

अमेरिकीयाः चित्रपटाः किं बोधयन्ति अस्मान् ?
१ चीनीयाः कुङ्गफोः अभ्यासात् , कुङ्गफोः अध्यापनात् विहाय न किमपि जानन्ति।
२ ५०% अमेरिकीयाः FBI, CIA आदिषु विशेषान्वेषणदलेषु नियुक्ताः प्रच्छन्नदूताः सन्ति।
३ अमेरिकीयाः पाठशालाः केवलं बेस्बौलस्य बास्केटबौलस्य च संवर्धनार्थमेव सन्ति।
४ अन्यग्रहीयाणां अमेरिकाक्रमणे विशेषासक्तिः रुचिः च अस्ति।
५ वेअरवूल्फाः, वैम्पायराः आदिनः सदृशः मिथ्यपशवः अमेरिकादेशे विपुलतया प्राप्यन्ते।

भारतीयाः चित्रपटाः किं बोधयन्ति अस्मान् ?
१ एकविधयमलेषु (identical twins) एकः तु निश्चयेन अपराधी वर्तते।
२ विस्फोटके निष्क्रियमाणे प्रथमावसरे एव उचितः तन्तुः चीयते, प्रथमयत्नः सदैव सफलीभवति।
३ प्रमुखाभिनेतुः मुखे भृशं ताड्यमाने अपि पीडायाः लेशः न
दृश्यते। किन्तु अभिनेत्र्याः व्रणान् क्षालयमाणे अतीव दग्धचित्तः, व्यथितमानसः भूत्वा आर्ततया दुःखं प्रकटयति।
४ यः गुप्तचरः उद्योगात् निलम्बितः अस्ति सः एव अपराधविषयान्  लीलया निवारयितुं पारयति।

५ यदा भवान् क्वचिदपि पथे नृत्यम् आरभते, परितस्थाः सर्वे नृत्यमुद्राः यथावत् जानन्तः भवता सह नर्तिष्यन्ति।

सर्वोच्चन्यायालयः आन्तरिककलहे व्यस्तः

सर्वोच्चन्यायालयः आन्तरिककलहे व्यस्तः अस्ति, एतत् अस्मत्कृते विशेषतः जनवरीमासे हिताय एव, अन्यथा वयम् एतादृशाभिः सूचनाभिः पीडिताः अभविष्याम :-

आमान्यन्तां लोहरिम्
किन्तु काष्ठाः न प्रयोक्तव्याः

आमान्यन्तां धूमरहितं पोङ्खलम्
वायुप्रदूषणं परिहरन्तु

आमान्यन्तां वाताटरहितां सङ्क्रान्तिंम्
येन खगाः न म्रियेयुः

आमान्यन्तां नीरवं बिहुम्
दुन्दुभीन् मा ताडयन्तु

😩😩

Signature

अध्यापकः - वत्स कथय, इण्डियागेट्  किमस्ति?
छात्रः - इण्डियागेट् बास्मतितण्डुलः।

अध्यापकः - चारमिनारः किम् अस्ति?
छात्रः - चारमिनारः धूमनलिका।

अध्यापकः - ताजमहलः किम् अस्ति?
छात्रः - ताजमहालः चायपर्णम्।

अध्यापकः - हे मूढ, अनुचितान् उत्तरान् कथयसि, राष्ट्रीयस्मारकानाम् अवहेलनां करोषि। अहं आक्षेपं प्रेषयामि तव पित्रे, पितुः signature आनय।
छात्रः - अस्तु आचार्य।

अपरेद्युः शिक्षकः स्वोत्पीठिकां पश्यन् :- रे नीच, त्वया व्हिस्किकूपीं किमर्थं अनीता?
छात्रः - आचार्य, भवता एव उक्तं ननु पितुः  Signature आनेतुम्? अतः आनीता Signature कूपी मया... 
🍾🥂🥃🤭🤤🤪😇🤣🤣


Sunday, 28 January 2018

संक्षोभि कारयानम्

मुकेश अम्बानी :- मम कारयानेन उषःकालतः सायङ्कालपर्यन्तं भ्रमणं कृत्वापि मम स्थावरसम्पद् (property) पूर्णतया द्रष्टुं न शक्ष्यसि।
पाटीलवर्यः तमाखुं चर्वण्, 
"एतादृशं मन्दं निष्प्रयोजिकं संक्षोभि कारयानं मत्सकाशमपि आसीत्। किन्तु मया तु विक्रीतं तद्। भवानपि किमर्थम् अनुरक्षति तद्? विक्रीणातु।"
😜😜😜😜😜

५०० रुप्यकमुद्रा

500 रुप्यकस्य पत्रमुद्रां आपणिकः सर्वेभ्यः कोणेभ्यः वारं वारं,  पौनः पुन्येन परीक्षमाणः आसीत् (मुद्रा छद्मा तु नास्ति एतद् दृढीकर्तुम्)।

बहुनिमिषेभ्यः प्रतीक्षमाणः ग्राहकः क्रोधाविष्टः सन् अवदत्, "महोदय,  कतिवारं निरीक्षसे एतां मुद्राम्? सर्वेभ्यः कोणेभ्यः महात्मा गान्धिवर्यः एव दृश्येत न तु कैटरीना कैफ। शीघ्रं परिवर्तं (चिल्लर) यच्छतु मह्यम्।"

शवपेटिकापणिकः

शवपेटिकापणिकः तस्य ग्राहकं प्रति कारयानेन एकां शवपेटिकां नयन् आसीत्। सहसैव तस्य कारयानं निष्क्रियं जातम्। ग्राहकस्थले पेटिकाप्राप्तौ विलम्बं यथा न भवेत् तथा सः शवपेटिकां उन्नीय शिरसि स्थाप्य एव प्रस्थितः।

मार्गे कश्चन आरक्षकः तम् अपश्यत्। उत्कोचमार्गेण धनार्जनहेतुना आरक्षकः तम् आहूतवान्, तर्जनस्वरेण च पृष्टवान्, "किं वहसि त्वं शिरसि? कुत्र च गच्छसि एतद् गृहीत्वा? "

तीक्ष्णमतिः आपणिकः उत्तरितवान्,
(भवद्भ्यः अतीव रोचेत उत्तरम्)
..
अहं यत्र निखातः (buried) मम मरणोत्तरं, तत्स्थानं मह्यं न रोचते,  अतः अहं स्वयमेव अन्यत्र स्थलान्तरं कुर्वन् अस्मि।

आरक्षकः भीतः सन् मूर्च्छितः 😂

परीक्षापरिणामाः

पिता - परीक्षापरिणामे का स्थितिः अस्ति तव?
पुत्रः - मम कक्षायां पठन् मुख्याध्यापकस्य पुत्रः अनुत्तीर्णः...😳
पिता - तव च परिणामः कः अस्ति? 😏
पुत्रः - अन्यः एकः भिषग्वरस्य पुत्रः अपि अनुत्तीर्णः
पिता - अहं पृच्छामि तव परिणामविषये 😾
पुत्रः - एकः अधिवक्तुः पुत्रः अपि अनुत्तीर्णः...😸
पिता - मूर्ख, अलम् अन्येषां परिणामान् कथनेन। स्वपरिणामान् किमर्थं न कथयसि? लज्जसे वा?...😡😾😾😾
पुत्रः - यदि मुख्याध्यापकस्य, भिषग्वरस्य, अधिवक्तुः च पुत्राः अनुत्तीर्णाः सन्ति, तर्हि भवान् स्वयं रजनीकान्तः इति भावयति वा? 😎
सुस्पष्टम् अस्ति यत् भवतः पुत्रोऽपि अनुत्तीर्णः।  
💃🏻👯💃🏻👯💃🏻

धूर्तः प्राणिः

शिक्षकः - विश्वे सर्वेषु प्राणिषु धूर्ततमः कः ?
पप्पुः - मृगः ...!!
शिक्षकः - कथम्?
पप्पुः - एतेन सत्ययुगे भगवान् रामः वञ्चितः, कलियुगे च सलमानः..!!
😜😜