राजनेतुः महार्घकारयाने चतुष्टये स्थगिते जाते ध्वजविक्रयकः बालः एकः राष्ट्रध्वजं विक्रेतुं कारस्य नैकट्ये आगतः। किन्तु उद्धतः राजनेता न केवलं ध्वजं क्रीतवान् प्रत्युत तं बालमेव तर्जितवान्,
"सर्वदा त्वं किमपि विक्रयणे समयव्ययं करोषि -- कदाचित् वृत्तपत्रं, कदाचित् करवस्त्रं तु कदाचित् क्रीडनकम्। किं वस्तु अस्ति जगति यत् त्वया न विक्रीयते?"
"सर्वदा त्वं किमपि विक्रयणे समयव्ययं करोषि -- कदाचित् वृत्तपत्रं, कदाचित् करवस्त्रं तु कदाचित् क्रीडनकम्। किं वस्तु अस्ति जगति यत् त्वया न विक्रीयते?"
निरुपद्रवः बालः उत्तरितवान्, "वयं राष्ट्रं न विक्रीणीमः।"
No comments:
Post a Comment