वैद्यः - भवतः यकृत् स्थूलीभूतः अस्ति।
रुग्णः - तन्नाम अधुना अहं इतोऽपि अधिकं व्हिस्कीमद्यं पातुं शक्नोमि वा?
(*एतत् सकारात्मकचिन्तस्य उदाहरणम्*😄😄)
महिला तस्याः आहारतज्ञाम् :- अहंं मम औन्न्त्यर्थं चिन्तिता न तु शरीरभाराय।
आहारतज्ञा :- कथमेतत्??
महिला :- मम शरीरभारम् अनुगुणं मम औन्नत्यं ७.८ फूटपरिमितं भवितव्यं, किन्तु अतीव न्यूनं ममौन्न्त्यम्।😜
(*एतत् सकारात्मकाभिवृत्तेः उदाहरणम्*😄😄)
एकेन पुरुषेण वित्तागारं पत्रं लिखितम्, "मया प्रेषितः धनादेशः भवता 'अपर्याप्ता धनराशिः' इति टिप्पण्या सह पुनर्प्रेषितः। अहं ज्ञातुमिच्छामि यत् धनस्य अभावः मम कोषेऽस्ति वा वित्तागारे धनम् अपर्याप्तम् अस्ति?"
(*आत्ममविश्वासः कथं शिखरायते तस्य उदाहरणम्*😄😄)
अधुना एतत् शृण्वन्तु !!
एकस्याः जन्तकायाः (cockroach) अन्तिमशब्दाः तस्याः मारकम् उद्दिश्य, "हे भीरो, यथेच्छं मारय माम्। तव मद्विषये ईर्ष्या स्पष्टतया दृश्यते यतो हि अहंं तव पत्नीं भाययितुं समर्थोऽस्मि किन्तु त्वं तु स्वपत्न्याः एव बिभेषि।
😅😅😅
😅😅😅
No comments:
Post a Comment