कारयानेन अटन् परिवारः एकः परिवहनारक्षकेण स्थगितः।
आरक्षकः :- अद्य सुरक्षादिवसोऽस्ति। सुरक्षोपायान् प्रति जागरूकाय, सुरक्षानियमान् च अनुसरते भवते सर्वकारेण 5000 रुप्यकाणि दीयन्ते उपहाररूपेण। कथयतु किं करिष्यति भवान् एतम् उपहारं अवाप्य?
कारचालकः - आदौ तु अहं यानचालनाय अनुज्ञप्तिपत्रं क्रीणामि।
आरक्षकः - 😳😳😳....??
कारचालकस्य माता - एतस्य वचसः तीव्रान् मा परिगणयतु । मद्यं पिबन् एषः किमपि असम्बद्धं वदति।
आरक्षकः - 😰😰😰....??
तावतैव कारचालकस्य पिता निद्रायाः जागरितः सन् आरक्षकं दृष्ट्वा उद्गीरितवान्, "मया तु आदौ एव उक्तमासीत् यत् एतं चोरितं कारयानं अधिकं दूरं नेतुं न शक्ष्यामः वयम्।
आरक्षकः - 😖 😖😖 मूर्च्छितः .......???
No comments:
Post a Comment