वार्ताहरः एकः कृषिवलेन सह वार्तालापं कुर्वन् आसीत् ।
वार्ताहरः - किं खादयति भवान् अजौ?
कृषकः - कृष्णाजं उत श्वेताजम्? (कृष्णवर्णीयः अजः इति कृष्णाजः , श्वेतवर्णीयः अजः इति श्वेताजः)
वार्ताहरः - कृष्णाजम् ...
कृषकः - तृणम्।
वार्ताहरः - तथा श्वेताजं किं खादयति?
कृषकः - तमपि तृणम्।
वार्ताहरः - कुत्र बध्नाति भवान् अजौ?
कृषकः - कृष्णाजं उत श्वेताजम्?
वार्ताहरः - कृष्णाजम् ...
कृषकः - बहिर्स्थिते प्रकोष्ठे।
वार्ताहरः - तथा श्वेताजं कुत्र बध्नाति ?
कृषकः - तमपि बहिर्स्थिते प्रकोष्ठे।
वार्ताहरः - कथं स्नापयति भवान् अजौ?
कृषकः - कृष्णाजं उत श्वेताजम्?
वार्ताहरः - कृष्णाजम् ...
कृषकः - जलेन।
वार्ताहरः - तथा श्वेताजं कथं स्नापयति ?
कृषकः - तमपि जलेन।
क्रोधाविष्ट: पत्रकरः उक्तवान्, "रे मूर्ख, यदि उभाभ्यामपि अजाभ्यां सह समानं व्यवहारं करोषि, तर्हि "कृष्णाजं वा श्वेताजम्" इति किमर्थं पृच्छसि?" 😡😡
कृषकः - यतः कृष्णाजः मदीयोऽस्ति।
वार्ताहरः - तथा श्वेताजः?
कृषकः - सः अपि मदीयोऽस्ति । 😜😜
वार्ताहरः मूर्च्छितः । 😫😫
यदा सः सचेतनस्थितौ प्रत्यागतः, तदा कृषकः तम् उद्बोधितवान्, "यदा त्वं वारं वारं, पौनःपुन्येन, कदाचित् साक्षात् , तु कदाचित् भङ्ग्यन्तरेण एकाम् एव वार्तां श्रावयसि तदा अस्मदीया स्थितिः एतादृशी एव भवति, इति अवगतमिदानीम्?