Monday, 8 August 2016

फेसबुकात् प्राप्तं ज्ञानं

पिता स्वपुत्रं ताडितवान्। यदा पुत्रः रूदितः तदा पिता तस्मै क्षमायाचनां कृतवान्।

दुःसाहसी पुत्रः अकथयत्,  "कागजं गृह्णातु,  तम् पञ्चवारं वा षड्वारं पुटीकरोतु। तदनन्तरम् उद्घाटयतु। तं कागजाय क्षमां याचताम्। कागजस्थाः वलयाः अपनीताः वा? वलयाः तु स्थायीरूपेण एव अङ्किताः भूताः सन्ति कागजे। न इति?"
 
कथा अनुवर्तते।

पिता पुत्रं यानस्थापनदालनं (garage) नयति। स्कूटरयानं निर्दिश्य वदति,  "पिञ्जं नुत्वा (self start) स्कूटरं चालयतु"। पुत्रः तथा एव करोति किन्तु स्कूटरयानं न चलति। पिता वदति, "पादाघातसंयन्त्रेण (kick) चालयतु"। झटिति एव स्कूटरयानम् आरभते।

पिता पुत्रं कथयति, "त्वं एतं स्कूटरम् इव असि, यः पादेन प्रहृत्यैव सम्यक् व्यवहरषि। एतं वाट्सैपात्, फेसबुकात् प्राप्तं ज्ञानं मह्यं मा यच्छ।"

No comments:

Post a Comment