एकः वृषभः वृषभशकटं कर्षन् आसीत्, तस्मिन् शकटे एकः कृषकः निद्राधीनः आसीत्। एतत् दृष्ट्वा एकः यान्त्रिकी-अभियन्तुः जिज्ञासा वर्धिता।
सः कृषकं जागरयित्वा पृष्टवान्, "उत्तिष्ठ भोः। एषः वृषभः कदा विरमेत एतस्य निद्रावस्थायाम् अवधानमपि न भवेत्"।
😋कृषकः : हे अभियन्तः, अवधानं निश्चयेन भविष्यति मम। यदा सः विरमेत, तदा तस्य कण्ठे लम्बमानायाः घण्टायाः रवः एव स्थगयेत्।
अभियन्ता विश्लेषणचेतसा विचिन्त्य अवदत्, "किन्तु यदि एषः वृषभः एकत्र स्थित्वा केवलं शिरश्चालनं करोति, तर्हि घण्टाध्वनिः तु गुञ्जेत् किन्तु भवतः भासेत यद् वृषभः चलन् अस्ति।"
😴कृषकः शान्तस्वरेण, "अभियन्तः अलं वृथा कल्पनया। मम वृषभेण B.E. उपाधिः प्राप्ता नास्ति येन सः एतावता व्यवहरिष्यति।"
😜😜
😜😜
No comments:
Post a Comment