Friday, 16 February 2018

विशिष्टः आयः, अवशिष्टः आयुः

98 वर्षीयेण वृद्धेन👳 सह 18 वर्षीया कन्या 👱♀ परिणीतवती....😳
वार्ताहरेण सा पृष्टा :- एतस्मिन्👳🏻भवत्या 👱🏻♀ विवाहयोग्यं किं दृष्टम्?
कन्या :- अस्य विशिष्टः आयः,
अन्यश्च अवशिष्टः आयुः..
😁😁😁😜😜😁😁😁



विवाहे सप्तप्रदक्षिणाः

विवाहे वधूवरौ सप्तप्रदक्षिणाः किमर्थं कुरुतः?
गणितीयम् उत्तरम् :-
एका  प्रदक्षिणा वर्तुलाकारीया तन्नाम 360 अंशात्मका अस्ति। 360 एषा सङ्ख्या 1 तः 9 सङ्ख्यासु, 7 विहाय अन्याभिः सर्वाभिः विभाज्यते। अतः 7 एषा सङ्ख्या एकनिष्ठा , एकसङ्घत्वं प्रतीयते। सप्तप्रदक्षिणाभ्यः वैवाहिकसम्बन्धाः अपि न केवलं दृढाः अपि तु अविभाज्याः अपि भवन्ति।

पतिपत्न्योः मध्ये सञ्जाताः परिहासपूर्णाः प्रसङ्गाः

पतिपत्न्योः मध्ये सञ्जाताः परिहासपूर्णाः प्रसङ्गाः 
👊👊👊👊👊😂

पत्नी :- अहं द्विषामि त्वाम्
पतिः :- अहो महान् संयोगः

😆😂😆😂😂😂😆😆😆

एकदा पतिः पत्न्याः छायाचित्राणि ग्राहितवान्, स्वयं "वन्यजीवछायाचित्रकारः" इति प्रकीर्तितवान्।

😆😂😆😂😂😂😆😆😆

एका कुशला पत्नी पतिवर्यं लिखितवती :-
अहं सखीभिः सह रात्रिभोजनार्थं गतवती अस्मि। भवतः भोजनं पाककृतिपुस्तकस्य 25 तमे पृष्ठे अस्ति । अखिला सामग्री रिलायंसफ्रेश् इत्यत्र उपलब्धा अस्ति ।

😆😂😆😂😂😂😆😆😆

पत्नी :- हे प्रिय, आवां आगामिनौ शनिवासररविवासरौ महदानन्दे यापयावः।
पतिः :- शोभना कल्पना इयम्। आवाम् सोमवासरे एव मिलावः।

😆😂😆😂😂😂😆😆😆

एकः उच्चपदधारी स्वमित्रं विषादं प्रकटन् उक्तवान्, "कीदृक् युगमेतत्। मम स्वीयकार्यदर्शिणी ह्यः पदत्यागं कृतवती।"
मित्रम् :- किमर्थम्?
उच्चपदधारी :- सा मां पत्न्या सह काफीआपणे दृष्टवती।

😜😝😛😛😝😜😝😝

मेन्धिकालेपनम्

विप्पण्यां💃महिला एका उभयोः हस्तयोः मेन्धिकां (मेहन्दी) लेपितवती। लेपनान्तरं तया परिलक्षितं यत् सा 🚴स्कूटीयानेन एकाकिनी एव आगतास्ति। कथं गृहं गन्तव्यम् एषः यक्षप्रश्नः अधुना। 
चिन्ताग्रस्ता सा एकेन प्रतिवेशिना सज्जनेन दृष्टा, अभिज्ञाता च। सः तां तस्याः एव स्कूटीयानेन गृहं प्रापितवान्।

*गृहं प्राप्य अनेन सज्जनेन ज्ञातं यत् एषा महिला तु स्वगृहं प्राप्ता किन्तु तस्य बाईकयानं तथा तस्य पत्नीम् उभौ अपि विप्पण्याम् एव विस्मृतवान् सः!!!!*

द्वादशमकक्षापरीक्षायै शुभाशंसाः

द्वादशमकक्षापरीक्षायाम् उच्चस्थानम् अधिगन्तृभ्यः तथा उत्तीर्णेभ्यः छात्रेभ्यः निकटभविष्ये अभियन्ता, वैद्यः, अधिवक्ता,  पत्रकारः, इत्यादीन् जीविकोपार्जनमार्गान् अनुसर्तुं हार्दाः शुभाशयाः। 
*तथा*
अनुत्तीर्णेभ्यः सांसदाः, विधायकाः, मुख्यमन्त्री, शिक्षामन्त्री इत्यादिपदान् भूषयितुं शुभाशंसाः। 

शीर्णाः आम्राः

शिक्षकः :- एकस्मिन् कण्डोलके दश आम्राः आसन्। तेषु त्रयः शीर्णाः भूताः। अथ कति आम्राः अवशिष्टाः
छात्रः - 10 😎😎
शिक्षकः :- कथम्?  😄😄
छात्रः :- शीर्णतां गताः सन्तः अपि आम्राः तु आम्राः एव भवेयुः , कदलीफलरूपं तु न धारयेयुः।
सः छात्रः अधुना अधिवक्तृपदं भूषयति इति श्रूयते।
😂😜😂😜😂👍👍

कन्याः रक्षत - कन्याः पाठयत

👩🏻🏭👩🏻🏭👩🏻🏭👩🏻🏭👩🏻🏭👩🏻🏭👩🏻🏭
पुत्रैः नौका निमज्जिता.....
उत्तरप्रदेशे अखिलेशेन....
बिहारे तेजस्विना
समग्रे देशे...राहुलेन ....
🙏 मोदिमहोदयः सत्यं वक्ति -
"कन्याः रक्षत - कन्याः पाठयत"

मुख्यमन्त्री सुवाह्यत्वं परियोजना

बिहारे मुख्यमन्त्री तु  पूर्वतनः एव, केवलं सेवापूरकः (service provider) परिवृत्तः।
एतत् "मुख्यमन्त्री सुवाह्यत्वं परियोजना" (chief minister portability ).
😜😈😂
(एषा हास्यकनिका एतां घटनाम् अधिकृत्य अस्ति :-
https://www.google.co.in/url?sa=t&source=web&rct=j&url=https://www.ndtv.com/india-news/nitish-kumar-ends-meet-on-tejashwi-yadav-likely-to-see-governor-now-1729555%3Famp%3D1%26akamai-rum%3Doff&ved=2ahUKEwiF5sWdlqzZAhUFYo8KHW3iD10QFjAAegQIERAB&usg=AOvVaw2vUjDSiFdag4p30VxG8Qt5&ampcf=1 )

शशकः कच्छपः च

🐢शशकः कच्छपः च🐰परीक्षाम् एकां लिखितवतौ, 📝 🐢कच्छपः 80% अधिगतवान्, 🐰शशकेन 81% अङ्काः प्राप्ताः।
उभौ अपि 🏦अभियान्त्रिकीये महाविद्यालये प्रवेशार्थं गतौ,
किन्तु 85% अङ्काः आवश्यकाः आसन् 😱😨।
😾शशकः प्रवेशं न प्राप्तवान्, किन्तु कच्छपः तु लीलया प्रवेशं प्राप्नोत् 🙀
कथम्?🙊
😁 पाठशालायां प्रथमकक्षायां पाठितां कथां न स्मर्यते किं😥, यस्यां कच्छपः धावनक्रीडायां जितः आसीत्?
😂क्रीडा-श्रेणी (sports quota)... 5% अतिरिक्ताः अङ्काः 😜😃😈
पुनः कच्छपः विजितः😎....
शशकः पराजितः!😌...




नेत्रे निमील्य

सत्यम् उच्यते यत् यदा महिला नेत्रे निमीलति, यस्मिन् सा स्निह्यति तस्य चित्रं दृष्टिपथम् आयाति।
किन्तु पुरुषः यदा नेत्रे निमीलति, तदा न तु एकं चित्रं, प्रत्युत चित्रावली दृग्गोचरीभवति।

सुषमा निर्मला

सुषमास्वराजः + निर्मला सीतारामन्
प्रतिवेशिभिः सह कलहस्य कार्यं महिलाभ्याम् एव आवण्टितम् अस्ति।
😎😎

द्रुतगरिमार्गे अपराधाः

आदरणीय गडकरीमहोदय,
द्रुतगतिमार्गे *गृहे कोऽपि प्रतीक्षमाणः अस्ति* इति सन्देशं बहुषुफलकेषु दृश्यते। तत् पठित्वा एव औत्सुक्यवशात् जनाः जलदगत्या यानानि चालयन्ति, अपघातः च वर्धते। 
भवान् *गृहे पत्नी प्रतीक्षमाणा अस्ति* इति सन्देशयुक्तान् फलकान् स्थाने स्थाने योजयतु। यानानां गतिः क्षीणतां यास्यति, अपघाताः अपि न्यूनीभविष्यन्ति।

वस्तुसेवाकरः

उपहारगृहे भोजनं समाप्य 1000 रुप्यकात्मकं भोजनशुल्कम् अतिरिच्य 180 रुप्यकात्मके वस्तुसेवाकरे प्रदीयमाने सति भासते यत् मोदिवर्यः स्वयमपपि अदृश्यरूपेण भोजनं कृतवान् अस्माभिः सह।🍛
😆😜🤣

गच्छ सिमरन् गच्छ

बुलेटरेलस्य प्रवर्तनानन्तरं 
"गच्छ, सिमरन गच्छ, स्वकीयम् आयुष्यं यथेच्छं जीव"
एतत् वाक्यमपि अमरिशपुरिः समाप्तुं न शक्ष्यति। वाक्यसमापनात् प्राक् एव शाहरुखः पञ्जाबतः देहलिं यावत् प्राप्स्यति।
😜😂😜😂😜😂😜😝

प्रादेशिक्यः समस्याः

विभिन्नप्रदेशेषु विभिन्नाः समस्याः :-
देहलीनगरे "केन कारयानेन अद्य गन्तव्यम्" अस्मिन् विषये जनाः सम्भ्रमिताः।
दुबईनगरे "कया पत्न्या सह अटितुं गन्तव्यम्"  एषा समस्या बाधते।
कैलिफोर्नियानगरे "कस्य पत्न्या सह अटितुं गन्तव्यम्" अनया समस्यया ग्रस्ताः जनाः।
मुम्बईनगर्यां तु विलक्षणसमस्या। "अद्य उपनगरीयरेलयानं कस्मिन् वेदिकायां (platform) आयास्यति" एतद्विषये जनाः आशङ्कितचित्ताः।
😂

(आन्तर)जालः

प्रथमवारं यदा मनुष्येन मत्स्यः जालपाशे बद्धः, तदा मत्स्यः तं मनुष्यम् अशपत...
अद्य त्वं मां सफलतया "जाले" बद्धवान्। किन्तु भविष्ये त्वमपि इतोऽपि सशक्ते जाले पतिष्यसि, तस्मात् जालात् स्वयं मोचयितुमपि न शक्ष्यसि।
आन्तरजालस्य, कुशलदूरवाण्याः प्रयोगात् तु मत्स्यस्य शापवचनानि यथार्थानि प्रतीयन्ते।
😝😝😝😝😝😜😜😜

लोकतन्त्रम्

भीता महिषी अरण्ये पलायिता आसीत्। मूषकः तां पृष्टवान्, "किमर्थं पलायसे?"
महिषी :- वने आरक्षकाः आगताः सन्ति गजं ग्रहीतुम्।
मूषकः - त्वं तु महिषी असि, तव कीदृशः भयः?
महिषी - मित्र, वयं भारतवर्षे निवसामः। अहं ग्रह्ये चेत् मया अग्रिमाणि विंशतिवर्षाणि यावत् न्यायालये प्रमाणीकरणीयम् आपतेत् यत् अहं महिषी अस्मि, गजं नास्मि इति।
एतच्छ्रुत्वा मूषकः अपि पलायनम् आरब्धवान्।
😂😂लोकतन्त्रम् 😂😂

गृहक्षालनम्

युवती :- मम पितरौ गृहं न स्तः, सायङ्काले प्रत्यागमिष्यति, त्वं आगच्छ मम गृहम्, आवां बहु मोदावहे 😉😉😉...           
😥😥😥
युवकः :-  नैव आयास्यामि, गते वर्षे अनेन व्याजेन एव त्वं मां गृहं निमन्त्रितवती, गृहं च क्षालितं त्वया मत्तः😞😒😣😢😥😰😤😤

चीनीया: मुखा:

लिम् नाम मम चीनदेशीयः सहकर्मी अस्ति। एकदा एकस्मिन् पानगोष्ठ्यां, मद्यं पिबता मया लिम् पृष्टः एतावता:-
लिम्, पाश्चिमात्त्यानां "सर्वेषां चीनदेशीयानां मुखानि एकसमानि दृश्यन्ते" इति सोपहासंवचनमं वारं वारम् आकर्ण्य त्वं क्रुद्धसि किम्?
मया उत्तरं प्राप्तं, "लिम् मद्यपरिवेशनस्थानं (bar counter) मद्यम् आनेतुं गतः अस्ति, अहं तस्य पत्नी अस्मि।"
🤔😅😄😂😆😆😆

हरितचायः

अतिथिभ्यः हरितचायं देयम्। तस्य लाभत्रयः एतावता :-
1) अतिथयः अस्मान् "आधुनिकान्" इति भावयन्ति 😌
2) दुग्धस्य व्ययः न भवति 👍
3) हरितचायेन सह पिष्टकस्य आवश्यकता न वर्तते😝
- एकः पुणेनगरीयः


अर्चकमद्यपयोः संवृत्तः संवादः

अर्चकमद्यपयोः संवृत्तः संवादः :-
अर्चकः :- अधिकं मद्यं मा पिब, नरकं गन्तव्यम् भवेत्।
मद्यपः :- मद्यविक्रेतुः का दशा भवेत्?
अर्चकः :- तेनापि नरकं गन्तव्यं भवेत्।
मद्यपः :- यः मद्यापणात् बहिः मांसाहारं विक्रीणाति, तस्य का गतिर्भवेत्?
अर्चकः :- तेनापि नरकं गन्तव्यं भवेत्।
मद्यपः :- सर्वे तत्र उपलब्धाः भवन्ति चेत् मम कापि समस्या नास्ति नरकगमने ।
🍺🍻🍹🍖🍗😋😜

उत्पीठिकाः युगलैः व्यापृताः

😂😂
उपहारं गत्वा सर्वाः उत्पीठिकाः युगलैः व्यापृताः दृष्ट्वा एका महिला रिक्तस्थानं प्राप्तुं अनन्यां युक्तिं प्रयुक्तवती। सा जङ्गमदूरवाणिसञ्चे कयापि सह सम्भाषणम् अभिनयती उच्चैः उक्तवती, 
"सखि, तव पतिः अन्यया महिलया सह उपहारगृहे दृष्टः, त्वमपि अत्रागत्य पश्य"।
अनुक्षणमेव नव पुरुषाः उपहारगृहात् निर्गताः।
😂😂

कृपणः चतुरः च रुग्णः

एकः कृपणः चतुरः च रुग्णः दान्तिकस्य वैद्यालयं गतः, तत्र दन्तोत्पाटनस्य (tooth extraction) शुल्कं पृष्टवान्। 1200 रुप्यकात्मकं शुल्कं महार्घं मत्वा, सः पुनः दान्तिकम् अल्पार्घाणाम् उपायानां विषये पृष्टवान्।

दान्तिकेनोकतम्, "एकः 300 रुप्यकात्मकः उपायः अस्ति, किन्तु अस्यां प्रक्रियायां निश्चेतकं (anasthesia) न युज्यते, येन महती तीव्रा वेदना सोढव्या भवेत् त्वया"।

रुग्णः वेदनापूर्णम् अल्पार्घम् उपायम् एनम् अङ्ग्यकरोत्।

दन्तवैद्यः रुग्णस्य दन्तम् उत्पाटितवान्, किन्तु अहो आश्चर्यम्। अखिलायां प्रक्रियायां प्रचल्यमाणायां रुग्णः तु न केवलं प्रशान्तचित्तः प्रत्युत स्मयमानः आसीत् ।

एतस्य धैर्येण प्रभावितः सन् सः रुग्णात् न केवलं शुल्कं निराकृतवान्, प्रत्युत तस्मै एव 500 रुप्यकाणि "शौर्यपुरस्काररूपेण" दत्तवान् । "भवत्समाः शूराः तु विरलाः अद्वितीयाः च। स्वस्य वेदनाः कथं निगृहीतव्याः, स्वस्य भावनाः कथम् अतिक्राम्याः एषः मूल्यवान् अध्यायः भवतः एव अधीतं मया", एतादृशैः साधुवचोभिः वैद्यः तं प्रशंसितवान् ।

सायङ्काले एषः दान्तिकः अस्य रुग्णस्य शौर्यगाथा सर्वेभ्यः वैद्येभ्यः श्रावितवान्।

कथाश्रवणसमये एतेन प्रसङ्गेण विचलितः सन् एकः अन्यः दान्तिकः झटिति उत्थितवान्, कथाकथने व्यवधानं कृत्वा सातङ्कम् उक्तवान्, "हे भगवन्, एतस्मै रुग्णाय मया एव निश्चेतकं दत्तम्, अर्धहोरां यावत् प्रतीक्षितुं च कथितम्। किन्तु तावता सः पलायितः आसीत्।"

😂🤑🤣😛😝😜🤣🤑😂

तीक्ष्णाधि: मद्यपः

एकः मनुष्यः रात्रौ द्विवादने मद्योनमत्तावस्थायां वैद्यस्य गृहं याति। वैद्यम् उत्थाप्य अपृच्छत्, 
"वैद्यमहोदय, गृहमागमनाय कति शुल्कं अपेक्षते भवान्?"
वैद्यः - २५० ‍रुप्यकाणि केवलम्
मनुष्यः - तर्हि चलतु अधुनैव
वैद्यः स्वयानम् आरब्धवान्, उभौ अपि तस्य गृहं प्रति प्रस्थितौ।
मनुष्यः (गृहात् समीपं प्राप्य) - वैद्यमहोदय, यानं स्थगयतु, मम गृहम् आगतम्।
वैद्यः - अस्तु। रुग्णः क्व अस्ति, तं प्रति शीघ्रं नयतु ।
मनुष्यः (उच्चैः हसन्) - रुग्णं विस्मरतु अधुना। २५० रुप्यकाणि स्वीकरोतु। मध्यरात्रौ रिक्षाचालकाः ५००रुप्यकाणि पृच्छन्ति, अतः भवतः साहाय्यं पृष्टवान्। गच्छतु अधुना।
मद्ये पीते अपि मतिः तीक्ष्णा भवति इत्यत्र प्रतीयते।
😆😆😂😂😂😂😂😂😂

सकारात्मकचिन्तनम् आत्ममविश्वासः च

वैद्यः - भवतः यकृत् स्थूलीभूतः अस्ति।
रुग्णः - तन्नाम अधुना अहं इतोऽपि अधिकं व्हिस्कीमद्यं पातुं शक्नोमि वा?
(*एतत् सकारात्मकचिन्तस्य उदाहरणम्*😄😄)

महिला तस्याः आहारतज्ञाम् :-  अहंं मम औन्न्त्यर्थं चिन्तिता न तु शरीरभाराय।
आहारतज्ञा :- कथमेतत्??
महिला :- मम शरीरभारम् अनुगुणं मम औन्नत्यं ७.८ फूटपरिमितं भवितव्यं, किन्तु अतीव न्यूनं ममौन्न्त्यम्।😜
(*एतत् सकारात्मकाभिवृत्तेः उदाहरणम्*😄😄)

एकेन पुरुषेण वित्तागारं पत्रं लिखितम्, "मया प्रेषितः धनादेशः भवता 'अपर्याप्ता धनराशिः' इति टिप्पण्या सह पुनर्प्रेषितः। अहं ज्ञातुमिच्छामि यत् धनस्य अभावः मम कोषेऽस्ति वा वित्तागारे धनम् अपर्याप्तम् अस्ति?"
(*आत्ममविश्वासः कथं शिखरायते तस्य उदाहरणम्*😄😄)

अधुना एतत् शृण्वन्तु !!
एकस्याः जन्तकायाः (cockroach) अन्तिमशब्दाः तस्याः मारकम् उद्दिश्य, "हे भीरो, यथेच्छं मारय माम्।  तव मद्विषये ईर्ष्या स्पष्टतया दृश्यते यतो हि अहंं तव पत्नीं भाययितुं समर्थोऽस्मि किन्तु त्वं तु स्वपत्न्याः एव बिभेषि।
😅😅😅

अमेरिकीयाः चित्रपटाः भारतीयाः चित्रपटाः च

अमेरिकीयाः चित्रपटाः किं बोधयन्ति अस्मान् ?
१ चीनीयाः कुङ्गफोः अभ्यासात् , कुङ्गफोः अध्यापनात् विहाय न किमपि जानन्ति।
२ ५०% अमेरिकीयाः FBI, CIA आदिषु विशेषान्वेषणदलेषु नियुक्ताः प्रच्छन्नदूताः सन्ति।
३ अमेरिकीयाः पाठशालाः केवलं बेस्बौलस्य बास्केटबौलस्य च संवर्धनार्थमेव सन्ति।
४ अन्यग्रहीयाणां अमेरिकाक्रमणे विशेषासक्तिः रुचिः च अस्ति।
५ वेअरवूल्फाः, वैम्पायराः आदिनः सदृशः मिथ्यपशवः अमेरिकादेशे विपुलतया प्राप्यन्ते।

भारतीयाः चित्रपटाः किं बोधयन्ति अस्मान् ?
१ एकविधयमलेषु (identical twins) एकः तु निश्चयेन अपराधी वर्तते।
२ विस्फोटके निष्क्रियमाणे प्रथमावसरे एव उचितः तन्तुः चीयते, प्रथमयत्नः सदैव सफलीभवति।
३ प्रमुखाभिनेतुः मुखे भृशं ताड्यमाने अपि पीडायाः लेशः न
दृश्यते। किन्तु अभिनेत्र्याः व्रणान् क्षालयमाणे अतीव दग्धचित्तः, व्यथितमानसः भूत्वा आर्ततया दुःखं प्रकटयति।
४ यः गुप्तचरः उद्योगात् निलम्बितः अस्ति सः एव अपराधविषयान्  लीलया निवारयितुं पारयति।

५ यदा भवान् क्वचिदपि पथे नृत्यम् आरभते, परितस्थाः सर्वे नृत्यमुद्राः यथावत् जानन्तः भवता सह नर्तिष्यन्ति।

सर्वोच्चन्यायालयः आन्तरिककलहे व्यस्तः

सर्वोच्चन्यायालयः आन्तरिककलहे व्यस्तः अस्ति, एतत् अस्मत्कृते विशेषतः जनवरीमासे हिताय एव, अन्यथा वयम् एतादृशाभिः सूचनाभिः पीडिताः अभविष्याम :-

आमान्यन्तां लोहरिम्
किन्तु काष्ठाः न प्रयोक्तव्याः

आमान्यन्तां धूमरहितं पोङ्खलम्
वायुप्रदूषणं परिहरन्तु

आमान्यन्तां वाताटरहितां सङ्क्रान्तिंम्
येन खगाः न म्रियेयुः

आमान्यन्तां नीरवं बिहुम्
दुन्दुभीन् मा ताडयन्तु

😩😩

Signature

अध्यापकः - वत्स कथय, इण्डियागेट्  किमस्ति?
छात्रः - इण्डियागेट् बास्मतितण्डुलः।

अध्यापकः - चारमिनारः किम् अस्ति?
छात्रः - चारमिनारः धूमनलिका।

अध्यापकः - ताजमहलः किम् अस्ति?
छात्रः - ताजमहालः चायपर्णम्।

अध्यापकः - हे मूढ, अनुचितान् उत्तरान् कथयसि, राष्ट्रीयस्मारकानाम् अवहेलनां करोषि। अहं आक्षेपं प्रेषयामि तव पित्रे, पितुः signature आनय।
छात्रः - अस्तु आचार्य।

अपरेद्युः शिक्षकः स्वोत्पीठिकां पश्यन् :- रे नीच, त्वया व्हिस्किकूपीं किमर्थं अनीता?
छात्रः - आचार्य, भवता एव उक्तं ननु पितुः  Signature आनेतुम्? अतः आनीता Signature कूपी मया... 
🍾🥂🥃🤭🤤🤪😇🤣🤣