Wednesday, 10 August 2016

सत्यवचः

वने तृणं खादितुं गतः वृषभः
मित्रैः सह पानगोष्ठीषु रतः पुरुषः
सौन्दर्यालयं गता महिला
शीघ्रं न प्रत्यागच्छन्ति

अभियन्ता वृषभतुल्यः नास्ति

एकः वृषभः वृषभशकटं कर्षन् आसीत्, तस्मिन् शकटे एकः कृषकः निद्राधीनः आसीत्। एतत् दृष्ट्वा एकः यान्त्रिकी-अभियन्तुः जिज्ञासा वर्धिता।
 
सः कृषकं जागरयित्वा पृष्टवान्, "उत्तिष्ठ भोः। एषः वृषभः कदा विरमेत एतस्य निद्रावस्थायाम् अवधानमपि न भवेत्"।
 
😋कृषकः : हे अभियन्तः, अवधानं निश्चयेन भविष्यति मम। यदा सः विरमेत, तदा तस्य कण्ठे लम्बमानायाः घण्टायाः रवः एव स्थगयेत्।
 
अभियन्ता विश्लेषणचेतसा विचिन्त्य अवदत्, "किन्तु यदि एषः वृषभः एकत्र स्थित्वा केवलं शिरश्चालनं करोति, तर्हि घण्टाध्वनिः तु गुञ्जेत् किन्तु भवतः भासेत यद् वृषभः चलन् अस्ति।"
 
😴कृषकः शान्तस्वरेण, "अभियन्तः अलं वृथा कल्पनया। मम वृषभेण B.E. उपाधिः प्राप्ता नास्ति येन सः एतावता व्यवहरिष्यति।"
😜😜

दैन्यावस्था

भारतदेशे दारिद्र्यावस्था तदा परिलक्षिता मया, यदा मम बाईकयानसम्मार्जनार्थं उपयुज्यमानः वस्त्रमपि केनापि चोरितम्।

चीनदेशे मराठीसाम्राज्यम्

यदि चीनदेशीयायाः भित्तेः किञ्चिदपि भागः महाराष्ट्रे स्यात् , तर्हि महाराष्ट्रीयमहिलावर्गः तस्यां भित्तौ गोमयलेपमात्रेणैव चीनदेशस्य अर्धभागे मराठीसाम्राज्यं प्रास्थापयिष्यत्।

पुणेनगर्यां सदाशिवपेठे व्यायामशाला किमर्थं नास्ति ?

पुणेनगर्यां सदाशिवपेठे एकापि व्यायामशाला स्थापिता नास्ति। एतद्विषये पुणेनगरीयस्य उत्तरम् एतावता :-

व्यायामशाला इत्युक्ते - "स्वस्य गृहे खादनं, किन्तु अन्येषां लोहभारम् उत्थाप्य तान् एव धनार्पणम् करणीयं, किं न एतत् अतर्किकम् (illogical)? कः गच्छेत् वृथैव तत्र?"...😜😜😜


शीतर्तौ चिन्ता

शीतर्तोः पूर्वं कथं चिन्तयन्ति जना:?
आढ्याः - मम शुनकं शैत्यबाधा भवेत् ?
दीना: - कम्बलं पर्याप्तं भवेत् वा मत्कृते?
मध्यवर्गीयाः - मया तु प्रतिदिनं घनीभूतं केशतैलं तप्तव्यम् अस्ति ।

नेपोलियनबोनापार्टस्य युद्धनीतिः

नेपोलियनबोनापार्टेन कथितमस्ति, "एकेनैव रिपुणा सह सङ्घर्षं न करणीयम्, अन्यथा अनवधानेनैव शत्रुणा भवतः युद्धकौशलाः, युद्धनीत्यः, युद्धरीत्यः च ज्ञायन्ते।"

दम्पतयोः सम्बन्धाः एतत् प्रमाणीकुर्वन्ति। उभौ योद्धारौ परस्परयोः युद्धरीतिभिः (कलहशैलीभि:) सह एतावतौ सुपरिचितौ स्तः, येन युद्धं तु अपरिमितकालं यावत् अनुवर्तते किन्तु युद्धस्यः कोऽपि परिणामः (जयः पराजयः वा) न निष्पपद्यते !!।
😉😜

नवविवाहितौ / न विवाहितौ

😅😆
👉कमपि हसन्तं, स्मयमानं युगलं पश्यामि चेत् चिन्तयामि,
"द्वे सम्भावने स्तः, एतौ नवविवाहितौ वा एतौ न विवाहितौ"
😜😜

Cctv

👨पिता - अस्मदीये काले अहम् आपणिकाय केवलं पञ्चरुप्यकाणि दत्त्वा सम्पूर्णा भक्ष्यापनसामग्री (grocery),  दुग्धं,  सुपिष्टकं, पिष्टकम् एतद् सर्वम् आनयामि स्म।
👦पुत्रः - पितः अधुना तु एतद् शक्यं नास्ति । अधुना  CCTV सञ्चाः सर्वत्र स्थापिताः सन्ति । 
😁😳😜😂

कृष्णाजः उत श्वेताजः

वार्ताहरः एकः कृषिवलेन सह वार्तालापं कुर्वन् आसीत् ।
वार्ताहरः - किं खादयति भवान् अजौ?
कृषकः - कृष्णाजं उत श्वेताजम्? (कृष्णवर्णीयः अजः इति कृष्णाजः , श्वेतवर्णीयः अजः इति श्वेताजः)
वार्ताहरः - कृष्णाजम् ...
कृषकः - तृणम्।
वार्ताहरः - तथा श्वेताजं किं खादयति?
कृषकः - तमपि तृणम्।
वार्ताहरः - कुत्र बध्नाति भवान् अजौ?
कृषकः - कृष्णाजं उत श्वेताजम्?
वार्ताहरः - कृष्णाजम् ...
कृषकः - बहिर्स्थिते प्रकोष्ठे।
वार्ताहरः - तथा श्वेताजं कुत्र बध्नाति ?
कृषकः - तमपि बहिर्स्थिते प्रकोष्ठे।
वार्ताहरः - कथं स्नापयति भवान् अजौ?
कृषकः - कृष्णाजं उत श्वेताजम्?
वार्ताहरः - कृष्णाजम् ...
कृषकः - जलेन।
वार्ताहरः - तथा श्वेताजं कथं स्नापयति ?
कृषकः - तमपि जलेन।
क्रोधाविष्ट: पत्रकरः उक्तवान्,  "रे मूर्ख, यदि उभाभ्यामपि अजाभ्यां सह समानं व्यवहारं करोषि, तर्हि "कृष्णाजं वा श्वेताजम्" इति किमर्थं पृच्छसि?" 😡😡
कृषकः - यतः कृष्णाजः मदीयोऽस्ति।
वार्ताहरः - तथा श्वेताजः?
कृषकः - सः अपि मदीयोऽस्ति । 😜😜
वार्ताहरः मूर्च्छितः । 😫😫
यदा सः सचेतनस्थितौ प्रत्यागतः, तदा कृषकः तम् उद्बोधितवान्, "यदा त्वं वारं वारं, पौनःपुन्येन, कदाचित् साक्षात् , तु कदाचित् भङ्ग्यन्तरेण एकाम् एव वार्तां श्रावयसि तदा अस्मदीया स्थितिः एतादृशी एव भवति,  इति अवगतमिदानीम्?

Monday, 8 August 2016

अलसः कर्मचारी, अधीरः वरिष्ठः

यन्त्रागारे : एकः पुरुषः कार्यहीनः लक्ष्यहीनः च तिष्ठन् आसीत्। मुख्यः कार्यकारी अधिकारी  (CEO) आगतवान्, तं पुरुषं तस्य वेतनं च पृष्टवान् ।
सः पुरुषः उत्तरितवान्, " 5000 रुप्यकाणि महोदय"।
CEO स्वस्य धनस्यूतात् 15000 रुप्यकाणि तं अयच्छत्, तं च अकथयत्, " अहं कर्मचारिभ्यः कार्यार्थमेव वेतनं ददामि न तु कालहरणार्थम्। त्वामहं निष्कासयाम्यहं यन्त्रागारात्, न प्रत्यागच्छतु कदापि।"
सः पुरुषः गतः निःसन्दिग्धतया। तेन CEO वर्यस्य अनुनयमपि न कृतं, न स्वकृत्याः समर्थन च ।
आश्चर्यान्वितः सन् CEO अन्यान् कर्मचारिणः पृष्टवान्,  "कः आसीत् सः?"
तेष्वेकेनोक्तं, "सः पिझ्झावाहकः आसीत्।"

😜😜😄😄

फेसबुकात् प्राप्तं ज्ञानं

पिता स्वपुत्रं ताडितवान्। यदा पुत्रः रूदितः तदा पिता तस्मै क्षमायाचनां कृतवान्।

दुःसाहसी पुत्रः अकथयत्,  "कागजं गृह्णातु,  तम् पञ्चवारं वा षड्वारं पुटीकरोतु। तदनन्तरम् उद्घाटयतु। तं कागजाय क्षमां याचताम्। कागजस्थाः वलयाः अपनीताः वा? वलयाः तु स्थायीरूपेण एव अङ्किताः भूताः सन्ति कागजे। न इति?"
 
कथा अनुवर्तते।

पिता पुत्रं यानस्थापनदालनं (garage) नयति। स्कूटरयानं निर्दिश्य वदति,  "पिञ्जं नुत्वा (self start) स्कूटरं चालयतु"। पुत्रः तथा एव करोति किन्तु स्कूटरयानं न चलति। पिता वदति, "पादाघातसंयन्त्रेण (kick) चालयतु"। झटिति एव स्कूटरयानम् आरभते।

पिता पुत्रं कथयति, "त्वं एतं स्कूटरम् इव असि, यः पादेन प्रहृत्यैव सम्यक् व्यवहरषि। एतं वाट्सैपात्, फेसबुकात् प्राप्तं ज्ञानं मह्यं मा यच्छ।"

पत्नी मॅगी, पतिः डोमीनोझ्

पत्नी :- पश्य पतिदेव,  अहं महिलास्मि, न तु मॅगी या निमिषद्वये सिध्दा भवामि।
पति :- अहमपि पुरुषोऽस्मि, न तु डोमिनोज पिझ्झा वाहकः यः अर्धहोरां यावत् गृहं प्राप्नोति।

दन्तफेनकस्य विज्ञापननि

दन्तफेनकस्य (toothpaste) विज्ञापनानि सूक्ष्मतया दृष्ट्वा प्राप्तं यत् सर्वेषु विज्ञापनेषु दन्तवैद्यस्य कण्ठे स्पन्दनमापिनी (stethoscope) लम्बमाना अस्ति।
अयि भोः, विश्वे कुत्रापि माम् एकेन दान्तिकेन सह मेलयतु यः स्पन्दनमापिन्या दन्तस्य स्पन्दनान् शृणोति।

शिशुमषकः

शिशुमषकः तस्य प्रथमोड्डानं कृत्वा प्रत्यागतः, तदा तस्य पिता पृष्टवान्,  " कथमभासत तव उड्डय्य? "
शिशुमषकेनोक्तं, "बहु समीचीनं, प्रोत्साहनकारकं च अभासत, यतः सर्वे मनुष्याः करान् ताडयन्तः च आसन् अहमुड्डयमाने सति"।

मुकेशः अम्बानेः कारयानम्

मुकेश अम्बानी :- मम कारयानेन उषःकालतः सायङ्कालपर्यन्तं भ्रमणं कृत्वापि मम स्थावरसम्पद् (property) पूर्णतया द्रष्टुं न शक्ष्यसि।
पाटीलवर्यः तमाखुं चर्वण्, "एतादृशं मन्दं निष्प्रयोजिकं संक्षोभि कारयानं मत्सकाशमपि आसीत्। किन्तु मया तु विक्रीतं तद्। भवानपि किमर्थम् अनुरक्षति तद्? विक्रीणातु।"
😜😜

धनमुद्रापरीक्षणम्

500 रुप्यकस्य पत्रमुद्रां आपणिकः सर्वेभ्यः कोणेभ्यः वारं वारं,  पौनः पुन्येन परीक्षमाणः आसीत् (मुद्रा छद्मा तु नास्ति एतद् दृढीकर्तुम्)।

बहुनिमिषेभ्यः प्रतीक्षमाणः ग्राहकः क्रोधाविष्टः सन् अवदत्, "महोदय,  कतिवारं निरीक्षसे एतां मुद्राम्? सर्वेभ्यः कोणेभ्यः महात्मा गान्धिवर्यः एव दृश्येत न तु कैटरीना कैफ। शीघ्रं परिवर्तं (चिल्लर) यच्छतु मह्यम्।"
😜😉😛😝😁😂😆😉

शवपेटिकापणिकः

शवपेटिकापणिकः तस्य ग्राहकं प्रति कारयानेन एकां शवपेटिकां नयन् आसीत्। सहसैव तस्य कारयानं निष्क्रियं जातम्। ग्राहकस्थले पेटिकाप्राप्तौ विलम्बं यथा न भवेत् तथा सः शवपेटिकां उन्नीय शिरसि स्थाप्य एव प्रस्थितः।

मार्गे कश्चन आरक्षकः तम् अपश्यत्। उत्कोचमार्गेण धनार्जनहेतुना आरक्षकः तम् आहूतवान्, तर्जनस्वरेण च पृष्टवान्, "किं वहसि त्वं शिरसि? कुत्र च गच्छसि एतद् गृहीत्वा? "

तीक्ष्णमतिः आपणिकः उत्तरितवान्,
(भवद्भ्यः अतीव रोचेत उत्तरम्)

अहं यत्र निखातः (buried) मम मरणोत्तरं, तत्स्थानं मह्यं न रोचते,  अतः अहं स्वयमेव अन्यत्र स्थलान्तरं कुर्वन् अस्मि।

आरक्षकः भीतः सन् मूर्च्छितः 😂

शल्यचिकित्सा

अशोकः - त्वं किमर्थं शल्यक्रियापीठात् (operation table) पलायितः?
रमेश: - परिचारिका वारं वारं कथितवती, "अधीरः मा भव, मा बिभीष्व, सशक्त: भव। एषा तु लघ्वी  शल्यक्रिया अस्ति।"
अशोक: - का समस्या एवं सति? किमर्थं बिभेषि त्वम्?
रमेश : - सा एतद् सर्वं शल्यकर्तारं (surgeon) कथितवती।
😜😄
😂😂

गावस्करः एलन् बाॅर्डरः च

सुनील: गावस्कर महोदय: ऑस्ट्रेलिया देशं गतः आसीत्। तत्र सः "गावस्कर" इति नाम्नः तद्देशीयस्य चित्रपटस्य दर्शनार्थं निमन्त्रितः।

अतीव प्रमुदित: सन्  निमन्त्रणं स्वीकृत्य सः तत्र गतवान् । किन्तु तस्मिन् चित्रपटे गावस्करम् अधिकृत्य वा क्रिकेटम्  अधिकृत्य न किमपि प्राप्तम्।

क्रोधावेषे सः दिग्दर्शकं पृष्टवान्, "भवतः मनोदशा अस्वस्था जाता वा? चित्रपटे मम उल्लेखं नास्ति चेदपि मम नाम चित्रपटाय कथम् अदीयत भवता? "

दिग्दर्शकः उत्तरितवान्, "गावस्करवर्यः इदानीं ज्ञात  भवता कथम् अभासत अस्माकं यदा भारतवर्षे "बाॅर्डर" नाम चित्रपटं प्रदर्शितं यस्मिन् अॅलन बाॅर्डर वर्यस्य वा क्रिकेटस्य लेशमपि नासीत्?"
🙀😛😁