Tuesday, 21 January 2020

हसामः

पप्पू विवाहार्थं गच्छति👱

तत्र भोजने जनाः वारंवारं केवलं जलमेव परिवेशयन्तः आसन् ।😜
पप्पू  बहु त्रस्तः जातः।😡
अन्ते सो उच्चैरवदत्..........
 गले जलबाधः जातः कृपया कोऽपि रसगोलकं परिवेशयतु भोः😝

दर्शना
😝😂😂

Monday, 20 January 2020

हसामः

युवकः--- त्वं किमर्थं मे दूरवाणी नोत्थितवती???😝

युवती---अरे इदानीमेव स्वपित्वा उत्थितवती भोः
मात्रा काॅफीपेयं दत्तं तदेव पिबन्त्यस्मि।
वदतु ........😊

युवकः--- किन्तु भवत्याः माता अवदत् यत् भवती तु गोमयं क्षेप्तुं गतवती इति।😜

दर्शना
😆🤭😆

Tuesday, 14 January 2020

हसामः

पत्नी--- अद्य मे स्वास्थ्यं सम्यक् नास्ति भोः।😢

पतिः---एवं वा🤭
तर्हि
 चिन्ता मास्तु अयि प्रिये😝
अद्य मकरसंक्रमणपर्वणः कृते भवती मधुरं मधुरं अवदत् अतः एवं भवेत्।
अस्तु
श्वतः पुनः पूर्ववत् सम्यगेव भवेत्
चिन्ता न करणीया अयि😜


दर्शना
😃😂😃

Wednesday, 8 January 2020

हसामः

न्यायाधिशः--(चौरं प्रति)
गृहे गृहस्वामी तथा च गृहसदस्याः आसन् तर्हि अपि भवान् चौर्यकर्म कर्तुं कथं शक्तवान्??

चौरः---न्यायाधिशवर्यः भवतः वृत्तिः उत्तमास्ति।
वेतनमपि सम्यगेव वर्तते।
भवान् एतद् सर्वं ज्ञात्वा किं करिष्यति भोः??

दर्शना
😃🤭😃

हसामः

रेलस्थानके यात्रापत्रनिरिक्षकः गणपतं वदति
यात्रापत्रं कुत्रास्ति तव दर्शयतु भोः।🤔

गणपतः---अरे अहं रेलयानेन नागतमं भोः।

निरिक्षकः---किं प्रमाणं  रे ??

गणपतः---प्रमाणं तु एतदेव वर्तते यत् मम समीपं यात्रापत्रं नास्ति ।😃

दर्शना
😃😜😃

Saturday, 4 January 2020

हसामः

अधिवक्ता---हत्यायाः रात्रौ भवत्याः पत्युः अन्तिमशब्दाः के ???🤔

पत्नी---मम उपनेत्रं कुत्रास्ति सङ्गीते??

अधिवक्ता---अस्मिन् वाक्यांशे हत्यां कर्तुं एवं किमस्ति ??

पत्नी---मम नाम रञ्जना अस्ति।

न्यायालये  शान्तिः शान्तिः


दर्शना
😃😝😃

Thursday, 2 January 2020

हसामः

शिक्षकः---त्वं कुत्रापि किञ्चन् अभिनन्दनीयं कार्यं कृतं वा?

छात्रः---आम्
कृतम्।😊

शिक्षकः---किदृशं कार्यम्?🤔

छात्रः---एकदा एकः वृद्धः बहु मंदं मंदं गृहं गच्छन्नासीत्।
तदा मया वृद्धस्य पृष्ठतः शुनकः त्यक्तः अनन्तरं सः शीघ्रमेव गृहं प्राप्तम्।😝

दर्शना
😆😜😆
मम प्रतिवेशिनी मामुक्तं मे उदरे मूषकाः धावन्त्यति।😃

अतः मूषकमारणस्यौषधं मया दत्तम्।🤭

घण्टाद्वयमभवत् इदानीं पर्यंतं स्वपित्वैव वर्तते सा।🤔

धन्यवादोऽपि नावदत्।😢

दर्शना
😝😃😝

Wednesday, 1 January 2020

हसामः

बाबूरावः---- अद्य मम शुनकेन अण्डं दत्तम्।😜

गणपतः----किमपि वदति भोः
शुनकः न कुक्कुटी स्यात्।🤭

बाबूरावः----न न
शुनकेनैव दत्तम्।😆

गणपतः----तर्हि कथम्?🤔

बाबूरावः----मम कुक्कुट्याः नाम शुनकोऽस्ति। हाहाहा
अयं तु बाबूरावस्य रीतिः(style )वर्तते।

दर्शना
😝😆😝