Tuesday, 26 December 2017

चीनदेशस्य भित्तिः

मोहनः  -  किं भवान् जानाति चीनदेशस्य भित्त्यां किमस्ति..
येन कारणेन...  सा भित्तिः सप्तसु आश्चर्यचकितेषु (अजूबों में ) वर्तते ??
चिनोलः - न वेद्मि। बोधयतु।
मोहनः -   तत् चीनदेशस्य जनैः निर्मितं प्रथमं तथा चान्तिमं वस्तु विद्यते
“यत् एतावत्सु दिनेष्वपि नष्टा नाभवत्” ।
😛😅😅😅

भोजनाय विषम्

दम्पत्योः मध्ये कलहः अभवत्.. पतिः गृहात् कुत्रचिद् अगच्छत्।
पतिः - रात्रौ दूरवाणीं कृत्वा पृच्छति भोजने किं पक्ववती ?
पत्नी - विषम्
पतिः - अहं विलम्बेन आगमिष्यामि भवती भुक्त्वा शेताम्. ( शयनं करोतु ) ।
पत्नी - आश्चर्यम् 😳

Thursday, 21 December 2017

अभिमुखपरीक्षा


पुनरागमिष्यामि






वैद्यः ~  भवतः रोगस्य मूलकारणं किमिति अधुना ज्ञातुं न शक्यते! प्राय अमितमदिरापानस्य कारणेन स्यात्।

रोगी ~ तर्हि सायंकाले पुनरागमिष्यामि तदा भवान् मद्यप्रभावमुक्तो भविष्यतीति मन्ये!! 





.

कथं दन्ताः नष्टाः?



दन्तवैद्यः - किमभवत्? कथं दन्ताः नष्टाः?

रोगी  - ह्यः पत्न्या दत्तरोटिका अतिदृढा आसन् भोक्तुमेव न योग्याः।।

दन्तवैद्यः - तर्हि ” खादितुं न शक्नोमि ” इत्येव वक्तव्यम् असीत् खलु!

रोगी - तावदेव प्रोक्तवान् भोः 




.

किं दातव्यम्


नाहम् इच्छामि

यदा पत्नी यानं चालयति तदा पतिः🚗
किमर्थं सूचकदीपस्य उपयोगं न करोषि?🚥
पत्नी ~ किमर्थं करणीयम्? नाहम् इच्छामि।👩‍🏫
पतिः तदा करोषि चेदेव अन्यचालका अवगच्छन्ति त्वं कुत्र गच्छसि कस्मिन् पार्श्वे गच्छसि इति।
पत्नी ~ अहं कुत्र गच्छामि कस्मिन् मार्गे गच्छामि इति सर्वं मम कार्यं तत्र तेषां का आकांक्षा?💁
पतिः ~ क्षम्यताम्🤦🙏

वैद्य-रोगी सम्भाषणम्

वैद्यः – भवान् मद्यं पिबति वा?
रोगी – नैव।
वैद्यः – धूमपानं करोति वा?
रोगी – न न।
वैद्यः –  मादकद्रव्यस्य उपयोगी वा?
रोगी – कदापि नाहम्।
वैद्यः – तर्हि किमर्थम् आगतं मम समीपे?
रोगी – वैद्यमहोदय!  सर्वदा अहं बहूनि असत्यवाक्यानि वदामि। तदर्थम् औषधं ददातु।
वैद्यः 🙄🤔 !

इति वार्ताः

पत्नी ~ प्रिय ! किं पूर्वं गुजरात्-राज्यं गतवान् वा?
पतिः ~ नाहं कदापि। 
पत्नी ~  तत्र गृहपरिवर्त्तनं करिष्यामः वा?
पतिः ~ नैव नैव किमर्थम्?
पत्नी – अस्मिन्नवसरे कोऽपि परिचितः निर्वाचने भागं स्वीकृतः किम्!?
पतिः – कोऽपि नास्ति!
पत्नी – तर्हि दूरनियन्त्रकं (remote) देहि अलं निर्वाचनवार्तया।।