Sunday, 9 February 2020

हसामः

गण्या---एतावान् व्याकुलः किमर्थं भोः?😏

बण्ड्या---अरे किञ्चित् भ्रान्तः जातोऽहम्।☹

गण्या---किमर्थम्?

बण्ड्या---अहं मार्गेण गच्छन् आसम्।तदैव पुरतः किमपि दृष्टं मया।सः सर्पः स्यात् इति अमन्येऽहम्।किन्तु सः सर्पः न आसीत्।😩

गण्या----अत्र व्याकुलतायाः किं कारणम्?🤔

बण्ड्या---आम् सत्यम् भोः।😔
किन्तु दण्डः  मत्वा यम् अहं सर्पं मारयितुम्  उत्थापितवान् .......
सः सर्पः आसीत् रे😭


दर्शना
😃😜😃

No comments:

Post a Comment