Saturday, 17 August 2019

हस मित्र!

😀 हस मित्र! हस। 😀

रमेश-महेश-सुरेश इति मित्रत्रयम् अल्पाहारगृहम् अगच्छत्। रमेशेन अल्पाहारस्य कृते तत्रत्येभ्यः सेवकेभ्यः सूचना दत्ता। तदैव वृष्टेः प्रारम्भः जातः। रमेशः सुरेशमुक्तवान्,"भो सुरेश ! अस्माकं सविधे तु जलत्रं (छाता- umbre) नास्ति अतः गृहं कथं प्रतिगमनीयम्? तव गृहं समीपे एवास्ति।  झटिति गृहं गत्वा जलत्रमानय।"
         "अस्तु। गच्छामि,किन्तु मम प्रत्यागमनस्य पूर्वं किमपि न भक्षणीयम्"- इत्युक्त्वा स गतः।

बहु अधिकः समयः व्यतीतः किन्तु सुरेशः नागतः। अतः रमेशेण गदितम्," ओ रमेश! अद्यावधि तु सुरेश  नागतः, आवामेव "पकोडां" खादित्वा गृहं गच्छावः। मन्ये सुरेशः नैव आगमिष्यति।
            सहसैव द्वारस्य पृष्ठभागतः सुरेशस्य रवः गुञ्जितः," अहं जानामि स्म यत् युवां मया विनैव पकोडा खादिष्यथ, अतः दूरदृष्टिमुपयुज्य अहं न गतवान्, अत्रैव स्थितवान्।"
😀😀😀
                    -देवा बुधेलिया

(कुत्रचित् श्रृतमासीत्।)

No comments:

Post a Comment