Thursday, 5 September 2019

छायाचित्रम्

कश्चन चित्रग्राहकः (photographer) अष्टनवतिवर्षीयस्य वृद्धस्य चित्रं गृहित्वावदत्,"महोदय! यदा भवान् शतवर्षीयः भविष्यति तदा अहमेव भवतः चित्रं ग्रहिष्यामि इति मम विश्वासोsस्ति।"
        "किमर्थं न, भवान् तु अधुना स्वस्थ्य एव दृश्यते ननु!" वृद्धेन सहजतया कथितम्। 😀😀😀
            

Monday, 19 August 2019

एकस्याः पादत्राणस्य विपणेः बहिः लिखितमासीत् यद्, स्त्रीणां कृते १०% अर्घोपहारम् (discount)। (यदि दशनिमेषस्य अवधेः क्रयणं भवेत् तर्ह्यैव।) 😀😀
 (मूल-गुर्जरभाषायां -श्रीमहेन्द्र मेघाणी)
                               -देवा बुधेलिया

Saturday, 17 August 2019

हस मित्र!

😀 हस मित्र! हस। 😀

रमेश-महेश-सुरेश इति मित्रत्रयम् अल्पाहारगृहम् अगच्छत्। रमेशेन अल्पाहारस्य कृते तत्रत्येभ्यः सेवकेभ्यः सूचना दत्ता। तदैव वृष्टेः प्रारम्भः जातः। रमेशः सुरेशमुक्तवान्,"भो सुरेश ! अस्माकं सविधे तु जलत्रं (छाता- umbre) नास्ति अतः गृहं कथं प्रतिगमनीयम्? तव गृहं समीपे एवास्ति।  झटिति गृहं गत्वा जलत्रमानय।"
         "अस्तु। गच्छामि,किन्तु मम प्रत्यागमनस्य पूर्वं किमपि न भक्षणीयम्"- इत्युक्त्वा स गतः।

बहु अधिकः समयः व्यतीतः किन्तु सुरेशः नागतः। अतः रमेशेण गदितम्," ओ रमेश! अद्यावधि तु सुरेश  नागतः, आवामेव "पकोडां" खादित्वा गृहं गच्छावः। मन्ये सुरेशः नैव आगमिष्यति।
            सहसैव द्वारस्य पृष्ठभागतः सुरेशस्य रवः गुञ्जितः," अहं जानामि स्म यत् युवां मया विनैव पकोडा खादिष्यथ, अतः दूरदृष्टिमुपयुज्य अहं न गतवान्, अत्रैव स्थितवान्।"
😀😀😀
                    -देवा बुधेलिया

(कुत्रचित् श्रृतमासीत्।)

Friday, 2 August 2019

उन्नामकयन्त्रम्😄

उन्नामकयन्त्रम्😄

ग्रामात् पिता नगरे वसन्तं पुत्रं द्रष्टुमागतः। द्वावपि महाभोजनालयं गतौ। तत्र पिता उन्नामकयन्त्रं साश्चर्यं पश्यन् स्थितः। 
तस्मिन् षष्टिहायनी स्त्री उपरि गच्छति। ततः विंशतिहायनी स्त्री अधः आगच्छति। 
पिता सर्वं विस्फारितनेत्रः पश्यन् पुत्रं पृच्छति—किमेतत्? 
पुत्रः वदति—तत् उन्नामकयन्त्रं पितः। 
पिता (सलोभम्)—अहो, तव मातरमपि सकृदस्मिन् उपरि सम्प्रेष्य प्रत्यानेतव्यम्।

లిఫ్టు😄
పల్లెటూరునుండి తండ్రి పట్నంలో ఉన్న తన కొడుకును చూడటానికి వస్తాడు. ఇద్దరూ కలిసి పెద్దహోటలుకు భోజనానికి వెళ్తారు. అక్కడ లిఫ్టును తండ్రి వింతగా చూస్తుంటాడు. అందులో ఒక 60 ఏళ్ళ స్త్రీ ఎక్కి పైకి వెళ్తుంది. కాసేపటికి ఒక 20 ఏళ్ళ అమ్మాయి లిఫ్టునుండి కిందికి వస్తుంది. తండ్రి గుడ్లప్పగించి చూస్తూ కొడుకుకు లిఫ్టు చూపిస్తూ అడుగుతాడు.
తండ్రి: ఒరేయ్ ఏంట్రా అది?
కొడుకు: దాన్ని లిఫ్టు అంటారు నాన్నా.
తండ్రి: దీని తస్సదియ్యా, మీ అమ్మను కూడా ఒకసారి దీంట్లో ఎక్కించి కిందకు దింపాల్రా అన్నాడు ఆశగా చూస్తూ.🤔

Thursday, 25 July 2019

हसामः

अहम् असमीचीनास्मि इत्युक्त्वा एकया युवत्या मत्तः अर्धघण्टा यावत् स्वस्य प्रशंसां कारितवती।